________________
आह्निकम् ]
प्रमाण प्रकरणम्
ननु यानि मुद्गरेण कपालानि जन्यन्ते स एव घटाभावः । हन्त तर्हि कपालस्फोटने सति घटाभावस्य विनष्टत्वाद् घटस्योन्मज्जनं प्राप्नोति । किश्वाकिश्वित्राणि कपालानि घटस्याभाव इति यद्युच्यते, पटस्यापि तथोच्येरन् । किश्व कारकत्वं तेषां पूर्ववत् प्रतिक्षेप्तव्यम् । अपि चायमभावो भवनधर्मा वा स्याद् अभवनधर्मा वा ? भवनधर्मत्वे भावोऽसौ भवेद्, घटादिवत् । अभवनधर्मा तु यद्यभावोऽस्ति स नित्य एवासौ तहि भवेत् । स चायमेकपदार्थसम्बन्धी वा स्यात् सर्वपदार्थसम्बन्धी वा ? तत्रैकभावसम्बन्धित्वे न तस्य नियमकारणमुत्पश्यामः । सर्वभावसम्बन्धित्वे तु सर्वपदार्थप्रतिकूलस्याभावस्य नित्यत्वान्नित्यः सन्नित्यो वा कश्चिदभावो नामास्ति ।
नन्वभावानभ्युपगमे भावानामितरेतरसङ्करादखिलव्यवहारविप्लवः प्राप्नोति, 10
यदाह
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूत्तिरात्मनि ॥ इति । अभावाभ्युपगमे तु भावानामितरेतराभावादसङ्कीर्णस्वभावत्वाद् अभाव - कारणकसङ्करपरिहारकथने तु सुतरां विप्लवः ।
भावो भावादिवान्यस्मादभावांशादपि ध्रुवम् । असङ्कीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति ॥ अन्योन्यमपि भावानां यद्यसङ्कीर्णता स्वतः । भावः किमपराद्धं वा परतवत्कुतो नु सा ॥ भावेभ्यो यद्यपेयेत भवेदन्योन्यसंश्रयम् । अभावान्तरजन्या चेदनवस्था दुरुत्तरा ॥
८७
मूर्तिरात्मनीति | महत्परिमाणादन्यत् परिमाणान्तरम् ।
भावो भावादिवान्यस्मादिति । यथा भावोऽन्यस्माद् भावादितरेतराभाववशाद् भिद्यते तथा इतरेतराभावाद्भिद्यतेऽभावो न वा ? न भिद्यते चेद् भावाभावसङ्करप्रसङ्गः । अथ भिद्यते, स्वतः अभावान्तरवशाद् वा ? स्वतश्चेद् भावानामपि स्वत एवास्तु भेदः । अभावान्तरवशाच्चेदनवस्था । असङ्कीर्णाभाववशाद् भावानामसङ्करस्तद्वशाच्चाभावासङ्कर इत्याशङ्कयाह भवेदन्योन्यसंश्रयमिति । अभावान्तर
5
15
20
25