________________
5
न्यायमञ्जयां
[प्रथमम् अभावस्वभावतायाश्च सर्वान् प्रत्यविशेषात्प्रतिषेध्यनिबन्धन एव तद्भेदः । प्रतिषेध्याश्च भावाः परस्परेण भिद्यमानास्तं भिन्दन्तीति । प्रत्युत भावाधीनमभावानामसाङ्कयं वक्तुमुचितम्, न तु विपर्ययो युक्तः, तदखिलपदार्थव्यवस्थाविसंष्ठुलीभावभयादपि नाभावाभ्युपगमो युक्तः।
नन्वभावप्रतिक्षेपे नत्रः किं वाच्यमुच्यताम् । न वै शब्दानुसारेण वस्तुस्थितिरुपेयते॥ बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्तयः । विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥ क्वचिन्नामपदप्राप्तवृत्तिना जन्यते नना। निषेधपर्युदस्तात्मविषयोल्लेखिनी मतिः॥ क्वचित्त्वाख्यातसम्बन्धमुपेत्य विदधात्यसौ।
तदुपात्तक्रियारम्भनिवृत्त्युल्लेखमात्रकम् । एकादशविधानुपलब्धिनिरूपणम्
ननु चानेन मार्गेण यदि भावो निरस्यते ।
एकादशप्रकारेषानुपलब्धिः क्व गच्छतु ॥ स्वभावानुपलब्धिर्यथा नेह घटोऽनुपलब्धेरिति । कारणानुपलब्धिर्यथा नात्र . धूमो दहनानुपलब्धेरिति । कार्यानुपलब्धिर्यथा नात्र निरपवादा धूमहेतवः सन्ति धूमानुपलब्धेरिति । व्यापकानुपलब्धिर्यथा नात्र शीतस्पर्शः पावकोपलब्धेरिति ।
जन्यत्वे च परस्परमन्यासङ्करस्य तस्याप्यभावान्तरजन्या असङ्करता चेदनवस्था 20 दुरुत्तरेति तदेवाह अभावान्तरजन्या चेदनवस्था दुरुत्तरेति ।
न वै शब्दानुसारेण वस्तुस्थितिरुपेयते । शब्दानामर्थासंस्पशित्वात् ।
स्वभावानुपलब्धिरिति । घटस्य प्रतिषेध्यस्य दृश्यस्य यः स्वभाव आत्मीयं रूपं तस्यानुपलब्धिः । अत्र च दृश्यस्येति विशेषणं कर्तव्यमन्यथा सन्तमसव्यवस्थितस्य
घटादेरनुपलब्धिमात्रेणाभावव्यवहारः स्यात् स्वभावासिद्धेः । कार्यानुपलब्धिरिति । 25 ननु च नावश्यं कारणानि कार्यवन्ति भवन्तीति वह्निश्च स्याद् धूमश्च न भवेदिति तन्नेत्याह-निरपवादेति धूमजन्मन्यप्रतिहतसामर्थ्या इत्यर्थः ।
तादृशश्च धूमानुपलम्भेनावश्यमभावसिद्धेः। व्यापकानुपलब्धिरिति । शिशपा