________________
प्रमाणप्रकरणम्
आह्निकम् ] स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शः पावकोपलब्धेरिति । स्वभावविरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमोपलव्धेरिति । विरुद्धव्याप्तोपलब्धियथा नाघ्र वभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति । कार्यविरुद्धोपलब्धिर्यथा नात्र शीतकारणमप्रतिबद्धसामर्थ्यमस्ति ज्वलनोपलब्धेरिति । व्यापकविरुद्धोपलब्धिर्यथा नात्र तुहिनस्पर्शः कृशानुदर्शनादिति । कारणविरुद्धोप- 5 लब्धिर्यथा नैतस्य रोमहर्षदन्तवीणादिविशेषाः सन्ति सन्निहितहुतवहाधिष्ठितविशेषादिति । कारणविरुद्धकार्योपलब्धिर्यथा प्रवृत्तदन्तवीणादिविशेषपुरुषाधिष्ठित एष देशो न भवति धूमवत्त्वादिति।
सत्यमेकादशविधाऽनुपलब्धिरिहेष्यते ।
सा त्वसद्व्यवहारस्य हेतु भावसंविदः ॥ नन्वनुपलब्धः स्वभावहेतावन्तर्भाव उक्तः । स्वभावहेतौ च साध्यसाधनयोरव्यतिरेक इष्यते। असद्व्यवहारश्च ज्ञानाभिधानात्मकत्वात्तत एव पृथगिति कथं तद्विषयतां यायात् ? सत्यमेवम् । किन्तु नासद्व्यवहारस्तया साध्यतेऽपि तु तद्योग्यता । योग्यता च न ततोऽर्थान्तरमिति न स्वभावहेतुत्वहानिः।
ननु योग्यता भावात्मिकानुपलब्धिस्त्वभावस्वभावेति, कथमनन्तरत्वम्। 15 नैतदेवम् । नापलब्धिप्रतिषेधात्मिकामभावस्वभावामनुपलब्धिमनुपलब्धिविदो वदन्ति, किन्तु प्रतिषेधपर्युदस्तवस्त्वन्तरोपलब्धिमेवार्थाभावस्वभावामिति । अत
स्वरूप प्रतिबद्धो धर्मो तादृशश्च वृक्षत्वाख्यस्तस्य व्यापकस्तस्यानुपलम्भाच्छिशपाया अभावः । स्वभावविरुद्धोपलब्धिरिति । प्रतिषेध्यस्य शीतस्पर्शस्य स्वभावेन स्वात्मना यो विरुद्धोऽग्निस्तस्योपलब्धेः शीतस्पर्शाभावः । स्वभावविरुद्धकार्योपलब्धिरिति । 20 निषेध्यस्य शीतस्पर्शस्य स्वभावेनात्मना यो विरुद्धोऽग्निस्तस्य कार्यं धूमस्तदुपलम्भाच्छीतस्पर्शाभावः । विरुद्धव्याप्तोपलब्धिरिति । ध्रु वभावित्वस्य निषेध्यस्य विरुद्धं हेत्वन्तरापेक्षित्वम् तेन व्यातस्य नाशस्योपलम्भाद् ध्र वभावित्वाभावः । ध्रुवभावित्वस्य हेत्वन्तरापेक्षित्वं विरुद्धम् । न हि लाक्षादिद्रव्यान्तरापेक्षो वर्णो ध्रुवो भवतीति । ध्र वमवश्यं भवतीति ध्रुवभावी भूतस्यापि कृतकस्यापि यस्यावश्यं (अत्र टीकाग्रथो नष्टः)। 25
१२