________________
न्यायमञ्जयां
[प्रथमम्
एवेदमपि न चोद्यम्, अनुपलब्धेरभावात्मकत्वादनुपलब्ध्यन्तरपरिच्छेद्यत्वादनवस्थेति । यस्माद्वस्त्वन्तरोपलम्भात्मिकाऽनुपलब्धिः स्वसंवेद्य वेति ।
नन्वनुपलब्धरसद्वयवहारसिद्धावदृष्टस्यापि तथात्वं सिध्येद् । न। दृश्यत्वविशेषणोपादानादुपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्वयवहारो, न यस्य कस्य5 चिदिति । तत्र
घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् । असत्त्वव्यवहारो हि सिध्यत्यनुपलब्धितः ॥ एकान्तानुपलब्धेषु विहायःकुसुमादिषु । पिशाचादेस्तु दृश्यत्वयोग्यतानवधारणात् ॥ न शक्योऽनुपलम्भेन कर्तु नास्तित्वनिश्चयः । तत्रापि त्वपिशाचोऽयं चैत्र इत्येवमादिषु ॥ तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते । पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः ॥
अनुपलब्धरभावात्मकत्वादिति । यथा घटाभावोऽभावत्वादनुपलब्ध्या परिच्छि15 द्यते तथा अनुपलब्धिरप्यभावत्वादेवानुपलब्ध्यन्तरेण परिच्छेद्येति ।
उपलब्धिलक्षणप्राप्तस्येति । उपलब्धेर्लक्षणं जनिका सामग्री, तां प्राप्तो जनकत्वेन तदन्तःप्रविष्ट उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तत्कालमदृश्यत्वेऽपि एकज्ञानसंसर्गिणो भूतलादेदृश्यत्वाद् योग्यतया च दृश्यत्वसमारोपः । यदि दृश्यस्यानुपलब्ध्या अभाव
निश्चयः, नादृश्यस्य, तदा नभःकुसुमादेरदृश्यत्वादनुपलब्ध्या अभावनिश्चयो न 20 स्यादित्याशङ्कयाह एकान्तानुपलब्धेष्विति । तेष्वपि दृश्यत्वयोग्यताया योगाद्
युज्यमानत्वादितरकुसुमवदित्यर्थः । पिशाचादेस्तु दृश्यत्वयोग्यतानवधारणादिति । तदनवधारणन्तु स्वभावविप्रकृष्टत्वेन पिशाचादीनाम् । त्रिविधा चादृश्यता भवति स्वभावविप्रकर्षेण यथा पिशाचादीनाम्, देशविप्रकर्षेण यथा मेर्वादीनाम्, कालविप्रकर्षण यथा रामादीनाम् । अतो नास्तित्वनिश्चयस्तत्र कर्तुमशक्यः, सन्देह एव तत्रेत्यर्थः । यदि तहि अदृश्यस्यानुपलब्ध्या अभावनिश्चयो न सिद्धयति, तदा 'अपिशाचोऽयं चैत्रः' इत्यस्यामपि प्रतीतावभावनिश्चयो न स्यात्, अदृश्यत्वात् पिशाचस्य, ततश्च पिशाचापिशाचरूपतया चेत्रं प्रति सन्देह एव स्यादित्याशङ्याह तत्रापि त्वपिशाचोऽयमिति ।