________________
आह्निकम् ]
प्रमाणप्रकरणम् ताद्रूप्यनिश्चये तस्य कि फलं तद्विशेषणम् । इत्यसद्व्यवहारस्य सिद्धरनुपलब्धितः॥
न भाववदभावाख्यं प्रमेयमवकल्पते। अभावस्य वस्तुत्वसाधनम्
अत्राभिधीयते, इदं तावत्सकलप्राणिसाक्षिक संवेदनद्वयमुपजायमानं दृष्टम, 5 इह घटोऽस्ति, इह नास्तीति। तत्र विकल्पमात्रसंवेदनमनालम्वनमात्मांशावलम्बनं वेत्यादि यदभिलप्यते, तन्नास्तिताज्ञान इवास्तित्वज्ञानेऽपि समानम् अतो द्वयोरपि प्रामाण्यं भवतु द्वयोरपि वा मा भूत् । यत्त्वस्तीति ज्ञानं प्रमाणमितरदप्रमाणमिति कथ्यते तदिच्छामात्रम् । अस्तीति ज्ञानसमानयोगक्षेमत्वे च नास्तीति ज्ञानस्य विषयश्चिन्तनीयः ।
10 ननु घटविविक्तभूतलोपलम्भभावे घटानुपलम्भ ·इत्युक्तं तदयुक्तम् । केयं घटविविक्तता ? सा भूप्रदेशादभिन्ना, भिन्ना वा । अभेदे भूप्रदेशाविशेषाद् घटसन्निधानेऽपि घटो नास्तीति प्रतिपत्तिर्जायेत । भेदे तु नाम्नि विवादः स्यात् । अयमाशयः-यत्र पदार्थस्य स्वरूपेणासत्त्वं साध्यते तत्रानुपलब्धिमात्रस्य व्यभिचारात् सविशेषणया तया साध्यम्, अन्यस्य मानान्तरस्य तथाविधासत्त्वसिद्धावव्यापारात् । यत्र तु 15 पररूपेणासत्त्वं साध्यते तत्र यदेव प्रत्यक्षं प्रमाणं परस्य रूपं निश्चिनोति चैत्रादेस्तदेव पिशाचादिरूपतामपि तस्य व्यवच्छिनत्ति । यो हि पदार्थों येन रूपेणोपलभ्यते तदेव तस्य रूपम्, चैत्रश्च स्वेन रूपेणोपलभ्यमानः कथं पिशाचः स्यात् । अतः प्रत्यक्षमहिमत एव तस्यापिशाचरूपत्वसिद्धेः किं दृश्यत्वविशेषणापेक्षया । यत्र तु संयोगित्वेन विवक्षा 'चैत्राधिष्ठिते प्रदेशे पिशाचो नास्ति' इत्यादौ तत्र संदेह एव युक्तः, परमाण्वादिवददृश्यपदार्थ- 20 सम्बन्धेऽपि प्रदेशप्रतिपत्तेरविशेषदर्शनात्, न त्विह तथा। यो ह्यतदात्मा प्रत्यक्षेणोपलभ्यते कथमसौ तदात्मा स्यात् । यथा नीलवस्तु पीतं न भवतीत्यत्र नानुपलब्धेापारः, प्रत्यक्षत एव तत्सिद्धेः। पीतसम्बन्धाभावे तु तस्य निश्चयेऽनुपलब्धेरेव व्यापारः, तथा प्रकृतेऽपीति । पिशाचेतररूप इति । पिशाचादित रद्रूपं स्वभावौ यस्य । किंफलं तद्विशेषणम् । तदनुपलब्धविशेषणं दृश्यत्वं किंफलं न क्वचिदुपयुज्यत इत्यर्थः । . 25
अनालम्बनम् । असदाकारनिष्ठत्वाद् यथाह धर्मोत्तरः। आत्मालम्बनम् । स्वाकारालम्बनं यथाह धर्मकीतिः।