________________
न्यायमञ्ज
[प्रथमम् भेदाभेदे न चिन्त्या च घटादपि विविक्तता।
अभेदे घट एव स्याइँदे चाभाव एव सा॥ तदिह घटो नास्तीति घटविविक्तभूतलालम्बनतायामस्याः स्वसंविद इहेति तावदस्मिन्संविदंशे देश आलम्बनमित्यविवाद एव । इह घटोऽस्तीति भावप्रतीति समयेऽपि तत्र तदवभासाभ्युपगमात् । घटो नास्तीत्यत्र तु यदवभासते तन्न भूतलमात्रमेव, भावप्रतीतिसमये तदतिरिक्तप्रतिभासस्यावश्यम्भावित्वात् । तदतिरिक्तन्तु प्रतिभासमानं घटविविक्ततेति वा कथ्यताम्, घटाभाव इति वा, नात्र वस्तुनि विशेषः।
ननु घटो नास्तीति विकल्पमात्रमेतत् । न । दर्शनानन्तरप्रवृत्तत्वेन विधि10 विकल्पतुल्यत्वात्।
यथानुभवमुत्पत्तुमर्हन्ति किल कल्पनाः। प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः॥ ननु नैव विकल्पानां वयं प्रामाण्यवादिनः । कामं विधिविकल्पानामपि मा भूत्प्रमाणता ॥ प्रामाण्यं दर्शनानाञ्चेत्त्वविकल्पानुसारतः ।
इहापि तेषामेवास्ति तद्विकल्पानुसारतः ॥ वस्तुप्राप्त्या विधिविकल्पानां प्रामाण्यव्यवहार इति चेद, इहापि तत्प्राप्त्यैव निषेधविकल्पानामस्तु प्रामाण्यव्यवहारः। किमत्र वस्तु प्राप्यत इति चेत्तत्रापि किं प्राप्यते ? नीलमिति चेत्, सेयमभावस्यापि प्राप्तिर्भवत्येव । नीलं हि प्राप्यमाणं तदभावाविनाभूतपीतादिव्यवच्छिन्नरूपं प्राप्यते। सा चेयं तथाभूतनील
भेदाभेदे न चिन्त्या चेति । यथा प्रदेशाद् घटविविक्तता किं भिन्ना आहोस्विद् अभिन्ना तद्वद् घटादपि सा किं भिन्ना विविक्तता आहोस्विद् अभिन्नेति ।
काम विधि विकल्पानामपि मा भूत् प्रमाणतेति । दर्शनानां प्रामाण्यदायिनो विकल्पा न स्वतः प्रमाणमिति बौद्धाभिप्रायः । तत्राप्याह नैयायिकः प्रामाण्यं दर्शनानां 25 चेदिति ।