________________
आह्निकम् ]
प्रमाणप्रकरणम् प्राप्तिर्भवन्तीतराभावप्राप्तिरपि भवत्यन्यथा हि नीलप्राप्तिरेव न स्यादिति । एतच्च लाक्षणिकं विरोधमाचक्षाणर्भवद्भिरेवोपगतम् ।
सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः । कण्टकाभावमालक्ष्य पदं पथि निधीयते ॥ प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः । व्याध्यभावपरिच्छेदाद्भषज्यविनिवर्तनम् ॥ इहाभावप्रतिष्ठानव्यवहारपरम्पराम्।
पश्यन्नभावं को नाम निहणुवीत सचेतनः ॥ ननु नाजनकमालम्बनं भवति, ज्ञानस्याभावस्तु सकलोपाख्याविनिर्मुक्तस्वरूप इति न ज्ञानजननपटुः । अतः कथं तदालम्बनम् ? उच्यते सौगतानां तावन्न 10 किञ्चिज्जनकं वस्तु प्रति भासते, द्वित्रिक्षणावस्थितिप्रसङ्गन क्षणभङ्गवतविलोपप्रसङ्गात् । उत्पद्यते चार्थज्ञानञ्च जनयति, जातेन तेन गृह्यते चेत्यासां क्रियाणामेककालत्वाभावात् । तस्मादकारक एव भावः प्रतिभासते, आकारार्पणपक्षञ्च प्रतिक्षेप्स्यामः। एवं भाववदभावोऽप्यजनकः प्रतिभासताम। अस्माभिस्त भाववदभावोऽपि ज्ञानजननसमर्थ इष्यते। न हि निःशेषसामर्थ्यरहितत्वमभावलक्ष- 15 णम् । अपितु नास्तीति ज्ञानगम्यत्वम् । सत्प्रत्ययगम्यो हि भाव इष्यते, असत्प्रत्ययगम्यस्त्वभाव इति । तदिदमुक्तं 'सदसती तत्त्वम्' इति ।
ननु भाववदेष ज्ञानजनकः सन्नभावो न भावाद्विशिष्यते। अहो निपुणदर्शी देवानाम्प्रियः । प्रतीतिभेदश्वास्ति । तत्र प्रतीयमानौ भावाभावौ न भिद्यते इति कथमेवं भवेद् ? अपि रे मूढ़ ! ज्ञानजनकत्वाविशेषेऽपि रूपरसौ कथं भिद्यते, 20 प्रतीतिभेदादिति चेद् ? भावाभावावपि जनकत्वधर्मसामान्येऽपि प्रतीतिभेदादेव भिद्येयाताम् । न हि प्रतिभास्यभेदमन्तरेण प्रतिभासभेदो भवतीति भवताप्यभ्युपगतम् ।
लाक्षणिकं विरोधमिति । लक्ष्यते व्यावृत्तत्वेन वस्तु वस्त्वन्तराद् येन तल्लक्षणमसाधारणं पदार्थानां स्वरूपम्, तत्प्रयोजनं यस्यासौ लाक्षणिकः परस्परपरिहारस्थितता- 25 लक्षणो विरोधः । तद्वशाद्धि पदार्थाना परस्परासंकीर्णस्वरूपलाभः ।
'सदसती तत्त्वम्' इति सच्चासच्चेत्यविपरीतरूपेण गृह्यमाणं तत्त्वमित्यर्थः ।