________________
10
न्यायमञ्ज
[प्रथमम् प्रामाण्यं वस्तुविषयं द्वयोरर्थभिदां जगौ।
प्रतिभासस्य भिन्नत्वादेकस्मिस्तदयोगतः ॥ इति तस्मादस्तीति प्रतीतेरेव भावः। नास्तीति प्रतीतेरभावो भूमिरित्यभ्युपगम्यताम् । अथ वा विज्ञानवाद एव सुस्पष्टमास्थीयताम् । अन्तरावस्थानन्तु न 5 साम्प्रतम् । अर्थक्रियासामर्थ्यमपि तस्य दर्शितमेव ।
स्वज्ञानाख्यक्रियाशक्तिरमुष्य दुरपह्नवा। अर्थक्रियान्यजन्या तु न भावेनापि जन्यते ॥ एवञ्च सति यः पूर्व शक्तिवादोऽत्र वर्णितः ।
स प्रत्यक्षविरुद्धत्वात् कण्ठशोषाय केवलम् ॥ तथा सम्बन्धाभावादिति यदुक्तं तत्र देशेन सह तावदभावस्य विशेषणविशेष्यभावः सम्बन्धः। स तु सम्बन्धान्तरमूल इति भावेऽयं नियमो, नाभावे । न च भावेऽप्येष नियमो। न ह्येवं भवति यत्सम्बद्धं तद्विशेषणमेव । पादपीडिते, शिरसि वा धार्यमाणे दण्डे, दण्डीति प्रत्ययानुत्पादात् । नाप्येवं यद्विशेषणं तत्स
म्बद्धमेवेति, समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात् । तस्मात्स15 म्बन्धान्तररहितोऽपि प्रतिबन्ध इव, वाच्यवाचकभाव इव, विशेषणविशेष्यभावः
स्वतन्त्र एव सम्बन्धस्तथाप्रतीतेरवधार्यते । उभयोरुभयात्मकत्वात् कदाचित् कस्यचित्तथा प्रतिभासात् पुरुषेच्छानुवर्त्तनेन व्यत्ययप्रत्ययत्वेऽपि न दोषः । यस्माद्विशेषणविशेष्यभाव एव सम्बन्धो देशे भूतलादिना सहाभावस्य सम्बन्धः। एवं कालेनापि सह स एव वेदितव्यः। क्रियया कर्तृस्थया वा गमनादिकया कर्मस्थया
प्रामाण्यं वस्तुविषयमिति । द्वयोरपि प्रत्यक्षानुमानयोर्वस्तुप्राप्तिपर्यन्तप्रमाणव्यापारत्वाद् वस्तुविषयत्वम् । ग्राह्यभेदस्तहि कथनुक्तम्, आचार्यदिग्नागेनेत्याह अर्थभिदां ग्राह्यभेदं जगौ कथितवानाचार्यो दिङ्नागः । कथम् ? प्रतिभासस्य भिन्नत्वादिति । प्रतिभासत इति प्रतिभास आकारस्तस्यार्थक्रियाकारित्वेनार्थक्रियाकारित्वाभावेन च
प्रत्यक्षग्राह्यस्यानुमानग्राह्यस्य च स्फुटास्फुटत्वे भिन्नत्वात् । एकस्मिन् पुनर्ग्राह्ये तयोः 25 स्फुटास्फुटयोराकारयोरयोगात् असम्भवादिति । यद्यपि वस्तुनिष्ठत्वभुभयोस्तथापि ग्राह्याकारभेदाइ विषयभेदः; एकस्य हि स्वलक्षणं ग्राह्यमपरस्य सामान्यम्। .
प्रतिबन्ध इवेति । प्रतिबन्धो गम्यस्य गमकायत्तता। क्रियया कर्तृस्थयेति । 'देवदत्तेन गम्योऽयं ग्रामः' इत्यादौ । 'कुशूलभेत्ताऽयं चैत्रः' इत्यादौ तु कर्मस्थया।