________________
प्रमाणप्रकरणम्
आह्निकम् ] वा भेदनादिकया सह संयोगाद्यभावेऽपि विशेषणविशेष्यभाव एव सम्बन्धः । तद्वदभावस्यापि भविष्यतीति । प्रतियोगिना तु सह विरोधोऽस्य सम्बन्धः । अयमेव च विरोधार्थों यदेकत्रोभयोरसमावेशः। अतश्चैकविनाशे न सर्वविनाशो, घटाभावस्य घटकप्रतियोगित्वात् ।
यत्तु भवनधर्मा अभवनधर्मा वेति विकल्पितम्, तत्राभवनधर्मैवाभावोऽभ्यु- 5 पगम्यते। भवनधर्मत्वेऽपि चाभावो न भावान्न भिद्यते, प्रतिभासभेदस्य रूपरसादिषूपदर्शित्वात् । भवनधर्मत्वञ्चास्य हेत्वन्वयव्यतिरेकित्वाद्भवति । घटो हि मृत्पिण्डदण्डादीनिव जन्मनि, विनाशेऽपि मुद्गरादीननुवर्तते हेतून् । विजातीयसन्ततिजननपक्षेऽपि सदृशसन्तानजनिकायाः शक्तरभावः क्रियत एव, अन्यथा मुद्गरायुपनिपातेऽपि विजातीयेव सजातीयसन्ततिरभिजायेत। सजातीयविजातीयोभयसन्ततिजननशक्तियुक्तो घट इति चेद ? मुद्गरादियोगात पूर्वमपि 10 कपालसन्ततिजननम्, तद्योगेऽपि वा सति घटसन्ततिजननम्, अनियमेन दृश्येतेति विजातीयक्षणोत्पादनस्वभावे च घटे मुद्गरादेवैयर्थ्यमेव स्यात् ।
तदुत्पादस्वभावे हि न किञ्चिन्मुद्गरादिना। अतदुत्पादकत्वेऽपि न किञ्चिन्मुद्गरादिना ॥ मुद्गरोपनिपाताच्च यद्युत्पन्नं क्षणान्तरम् । घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत् ॥ नन्वस्याभवनं वृत्तं स एवार्थोऽयमुच्यते।
घा किमपराद्धं वा किं वाप्युपकृतं ल्युटा ॥ ननूक्तं 'न तस्य किञ्चिद्भवति न भवत्येव केवलमिति । तदयुक्तम् । यदसौ 20 न भवति स एवास्याभावः।
ननुस न, न तु तस्याभावः। मैवम् । 'स नेति'शब्दयोर्ज्ञानयोश्च विषयभेदात् । स इति ज्ञानस्य स्मर्यमाणो घटादिविषयः । 'नेति तु ज्ञानस्याभावो भूमिरित्यलमलोकविदग्धविरचितविफलवक्रवचनविमर्दैन।
तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् । न ह्यसद्यवहाराय कल्पन्तेऽनुपलब्धयः॥
25