________________
९६
न्यायमञ्जयां
[प्रथमम् न स्वभावानुमाने च तदन्तर्भावसम्भवः । मेयं पृथगभावाख्यममूषामुपपादितम् ॥ कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता।
स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥ या चेयमेकादशानुपलब्धिवधूशुद्धान्तमध्ये विरुद्धव्याप्तोपलब्धिरुदाऽहता नाध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरानपेक्षणादिति, सेयमिदानी मेव साध्वी दूषिता । विस्तरतस्तु क्षणभङ्गभङ्ग दूषयिष्यते। अभावानभ्युपगन्तृप्रभाकरमतनिरासः
यैस्तु मीमांसकैस्सद्भिरभावो नाभ्युपेयते।
प्रमादेनामुना तेषां वयमप्यद्य लज्जिताः॥ घटो हि न प्रतीयते, न तु तदभावः प्रतीयते, इत्येवं वदद्धिरेभिर्दर्शनादर्शने एव पदार्थानां सदसत्त्व इति कथितं स्यात् । एतच्चायुक्तम् । दर्शनादर्शनाभ्यां हि सदसत्त्वे निश्चीयेते । न तु दर्शनादर्शन एव सदसत्त्वे
10
यस्तु मीमांसकैः सद्भिरिति । प्राभाकरान् निर्दिशति । ते हि ज्ञानञ्च सालम्बन15 मिच्छन्ति, शब्दञ्च बाह्यार्थविषयम् । अथ च नास्तीति प्रत्ययं शब्दञ्च निर्विषयमाहुः ।
घटो हि न प्रतीयत इति । घटस्यादर्शनमात्रमेव तत् केवलम्, न पुनर्घटाभावस्यात्र प्रतिभास इत्यर्थः । अदर्शनादेव चास्तित्वासिद्धिः । यैव चास्तित्वासिद्धिः सैव नास्तित्वसिद्धिः। कः पुनरस्य बौद्धपक्षाद् प्राभाकरस्य पक्षस्य विशेषः ? अयं
विशेषः बौद्धपक्षेऽनुपलब्ध्या अभावव्यवहारः साध्यः, स च सविकल्पकज्ञानस्वभावः, 20 विकल्पप्रतिभासि च न बाह्यमिति तेषां मतम् । प्राभाकराणान्तु विकल्पस्य बाह्यवस्तु
विषयत्वात् तथाविधे व्यवहारेऽनुपलब्ध्याभ्युपगम्यमाने बलाद् अभावालम्बनत्वमायातीति तेषां व्यवहारो भूतलधटयोवविक्त्यस्थापनामयः, पुरुषच्छाकृतः, केवलभूतलदर्शने घटस्मरणे च सति पश्चाद् 'भूतलमेव प्रत्यक्षेण गृहीतं न घटः' इत्येवंरूपो यो भवति, स एव विवक्षितः, न ज्ञानस्वभाव इति । दर्शनादर्शने एवेति । 'घटो हि न
प्रतीयते, न तु तदभावः प्रतीयते' इत्येवं वद्भिरेवमभ्युपगतं भवति 'घटानुपलम्भव्यति25 रेकेणान्यद् घटस्यासत्त्वं नास्ति, स एवासत्त्वम्' इति ।