________________
आह्निकम् ]
प्रमाणप्रकरणम् न चाप्रतीतिमात्रेण तदभावनिबन्धनाः । व्यवहाराः प्रकल्पन्ते मृदन्तरिततोयवत् ॥ खपुष्पस्य पिशाचस्य मृदन्तरित वारिणः । न खल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥ सर्वदानुपलम्भोऽपि कुर्वन्नास्तित्वनिश्चयम्। विशेष्यते मृदन्तःस्थसलिलानुपलब्धितः ॥ आगमाद् युक्तितश्चापि सत्त्वसम्भावनां गतः।
सर्वदानुपलब्धोऽपि न पिशाचः खपुष्पवत् ॥ अतश्च यदुच्यते अनुपलब्धे पुनरनुपलब्धिरेवानुपलब्धिरिति तद्भणिति
5
खपुष्पस्य पिशाचस्येति । खपुष्पस्य दृश्यत्वाद् अनुपलब्ध्या अभावनिश्चयः, 10 पिशाचस्य मृदन्तरितवारिणश्च दृश्यत्वाभावान्नास्त्यभावनिश्चय इति व्यवस्था। सा अनुपलब्धिमात्रान्नास्तिताव्यवहारिणां भवतां मते विघटते। मृदन्तरितवारिणः सर्वदानुपलम्भाभावात् कथमविशेष इत्याह - सर्वदानुपलम्भोऽपीति । एतदुक्तं भवति किल भवतैव नुच्यते सर्वदा यो नोपलभ्यते तस्याप्रतीतिमात्रेण नास्तित्वनिश्चयो भवति, मृदन्तरितवारिणश्च कदाचिदुपलम्भेन सर्वदानुपलम्भासिद्धेः । तस्याप्रतीतिमात्रा- 5 न्नास्तित्वनिश्चयः कथं सिध्येदित्यतः सर्वदानुपलम्भस्तस्य नास्तीति तस्य न नास्तितानिश्चयः' इति तदयुक्तम्, अनेन क्रमेण पिशाचस्यापि नास्तितानिश्चयप्रसक्तेरिति । भवत्विति चेत्, तन्नेत्याह आगमाद् युक्तितश्चापीति । आगमादवगतो नियतशरीरावच्छिन्नो यः पिशाचस्तेनावश्यमदृश्येन नियते क्वचिद् देशे भाव्यम् । अयमपि च विवादास्पदं देशो नियतदेश एव, अत्रापि पक्षे तस्यावस्थितिः सम्भाव्यत इति 20 सम्भावनायुक्तिः ।
__ अनुपलब्धे पुनरनुपलब्धिरेवेति एवमस्याष्टीकाया अवतरणम्, सतोऽपि घटादेरनुपलब्धिदर्शनात् कथमीश्वरादेरनुपलब्धिमात्रान्नारित्तानियः, अतः सन्देह एव युक्तः । न च 'इह घटो नास्ति' इतिवदुपलब्धिलक्षणप्राप्तत्वं तस्य, येन नास्तितानिश्चयः .. स्यात्, तस्मान्नास्तितासन्देह एव तस्य प्राप्त इत्याशङ्कयाह 'उपलब्धिविषये ह्यनु- 25 पलब्धिः कारणान्तरमपेक्षते, अनुपलब्धे पुनरनुपलब्धिरेवानुपलब्धिः' इति । अस्यार्थः।