________________
न्यायमञ्जयां
[प्रथमम्
मात्रम् । खपुष्पादेस्तु सविशेषणयानुपलब्ध्या अभाव एव निश्चीयते, न तस्यानुपलब्धिमात्रम् ।
अनिष्यमाणे चाभावे भावानां प्रतियोगिनि । नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥ मुद्गरादेश्च कि कार्य कपालपटलोति चेत् ।
घटस्ता विनष्टत्वात् स्वकार्य न करोति किम् ॥ अदर्शनादिति चेत्,
तदानीमेव दृष्टस्य स्थिरस्यामुष्य किं कृतम् ।
सर्वेन्द्रियादिसामग्रीसन्निधानेऽप्यदर्शनम् ॥ तस्मात्तदभावकृतमेव तदानीं तस्यादर्शनम् ।
स्वप्रकाशा च नास्तीति संवित्तिर्भवतां मते। न निरालम्बना चेयमस्तीति प्रतिपत्तिवत् ॥ विकल्पविषयाः शब्दा यथा शौद्धोदने हे। गीयन्ते भवता नैवमिति नञ्वाच्यमुच्यताम् ॥ प्रसिद्धिश्च परित्यक्ता न चाभावः पराकृतः। उपेक्षितश्च भाष्यार्थ इत्यहो नयनपुणम् ॥ अलञ्च बहुनोक्तेन विमर्दोऽत्र न शोभते।
महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः॥ तस्मानास्तीति प्रत्ययगम्योऽभाव इति सिद्धम् ।
20 सतोऽपि घटस्यानुपलब्धिदर्शनादुपलब्धघटादिविषयानुपलब्धिर्नास्तितानिश्चये कारणान्तर
मुपलब्धिलक्षणप्राप्तत्वमपेक्षते, अनुपलब्धे पुनरीश्वरादौ यानुपलब्धिः सैवानुपलब्धिः, सैव नास्तिताव्यवहारसाधनी, न तत्र दृश्यत्वादेः कारणान्तरस्यापेक्षोपयुज्यत इति यावत् । ननु यदि सर्वदानुपलम्भादपि न नास्तितानिश्चयः पिशाचादेस्तहि खपुष्पादेरपि न
प्राप्नोतीत्याशङ्क्याह खपुष्पादेस्त्विति। नानुपलब्धिमानं केवलं तत्र व्याप्रियत 25 इत्यर्थः ।
उपेक्षितश्च भाष्यार्थ इति । 'अभावोऽपि प्रमाणाभावो नास्तीत्यस्यासन्नि. कृष्टस्यार्थस्य' इति भाष्यस्याभावात्मकप्रमाणप्रमेयप्रतिपादकत्वात् ।