________________
प्रमाणप्रकरणम्
६६
10
आह्निकम् ] वस्तुत्वेन सिद्धस्याभावस्य भेदाः
स च द्विविधः । प्रागभावः, प्रध्वंसाभावश्चेति । चतुर्विध इत्यन्ये । इतरेतराभावः, अत्यन्ताभावश्च तौ च द्वाविति । षट्प्रकार इत्यन्ये । अपेक्षाभावः सामOभावः, ते च चत्वार इति । तत्र च
प्रागात्मलाभान्नास्तित्वं प्रागभावोऽभिधीयते। उत्पन्नस्यात्महानन्तु प्रध्वंस इति कथ्यते ॥ न प्रागभावादन्ये तु भिद्यन्ते परमार्थतः । स हि वस्त्वन्तरोपाधिरन्योन्याभाव उच्यते ॥ स एवावधिशून्यत्वादत्यन्ताभावतां गतः । अपेक्षाभावता तस्य देशोपाधिनिबन्धना ॥ सामर्थ्य पूर्वसिद्धञ्चेत् प्रध्वंसे तदभावधीः । नो चेतहि विशेषोऽस्य दुर्लभः प्रागभावतः ॥ उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा। अभावस्तत्त्वतोऽन्ये तु भेदास्त्वौपाधिका मताः ॥ तस्मादभावाख्यमिदं प्रमेयं तस्येन्द्रियेण ग्रहणञ्च सिद्धम् ।
अतः प्रमाणेषु जगाद युक्तं चतुष्ट्वमेतन्मुनिरक्षपादः ॥ सम्भवैतिह्ययोः प्रमाणान्तरत्वखण्डनम्
ननु नाद्यापि चतुष्ट्वमेवमवतिष्ठते सम्भवैतिह्य इति द्वयोः प्रमाणान्तरभावात् । सम्भवो नाम समुदायेन समुदायिनोऽवगमः । सम्भवति खार्यां द्रोणः, सम्भवति सहस्र शतमिति। अनिर्दिष्टप्रवक्तृकं प्रवादपरम्परा चैतिह्यम् । इह 20 वटे यक्षः प्रतिवसतीति । न चायमागमः, आप्तस्योपदेष्टुरनिश्चयादिति । तदनुपपन्नम्।
स हि वस्त्वन्तरोपाधिरिति । यदा स्वकारण एवानुत्पत्तिस्तदा प्रागभावः, यदा तु स्वकारणादन्यत्रानुत्पत्तिस्तदेतरेतराभावः, 'इह देशे काले वा इदं नास्ति' इत्यपेक्षाभावः । स्वकारणाद्धि वस्त्वन्तरमुपाधिरवच्छेदकमितरस्माद् यस्य ।
25