________________
१००
न्यायमञ्जयां
[प्रथमम् भिन्नः सम्भव एष न ह्यनुमितेराख्यायि खार्यां खलु द्रोणः सम्भवतीति सेयमविनाभावान्मतिलैंगिकी। ऐतिह्यन्तु न सत्यमत्र हि वटे यक्षोऽस्ति वा नेति वा
को जानाति कदा च केन कलितं यक्षस्य कीदृग्वपुः ॥ सत्यम् । अपि चागमात्पृथङ्नै तिह्यमुपदेशरूपत्वात् । आप्तग्रहणं सूत्रे न लक्षणायेति वक्ष्यामः। प्रमाणसंख्याविषये चार्वाकमतंसमालोचनम्
चार्वाकधूर्तस्तु 'अथातस्तत्त्वं व्याख्यास्यामः' इति प्रतिज्ञाय प्रमाणप्रमेयसंख्यालक्षणनियमाशक्यकरणीयत्वमेव तत्त्वं व्याख्यातवान्। प्रमाण10 संख्यानियमाशक्यकरणीयत्वसिद्धये च प्रमितिभेदान् प्रत्यक्षादिप्रमाणानुपजन्यान् ईदृशानुपादर्शयत्।
वक्राङ्गुलिः प्रविरलाङ्गुलिरेष पाणिरित्यस्ति धोस्तमसि मोलितचक्षुषो वा।
आख्यायि 'खार्यां खलु द्रोणः सम्भवति' इति आख्यायि आख्यातं केनचित् । 15 अत आगमात् सम्बन्धग्रहणमत्र ।
आप्तग्रहणं सूत्र इति । तत्र झुपदेश इत्युक्ते लक्षणमविनिश्चितं स्यात् । न ह्यपदेशमात्रस्याव्यभिचारादिविशिष्टप्रमाजनकत्वं सम्भवतीति कथं तस्यैवंरूपता निश्चीयेतेत्यविनिश्चितत्वमायातं लक्षणस्य, आप्तग्रहणन्तु तद्विनिश्चयाय कृतम्, अस्त्याप्तसम्बध्यु
पदेश एवंरूप इत्येवमर्थम्, न लक्षणायेति । चार्वाकधूर्तस्त्विति । उद्भटः । स हि लोका० यतसूत्रेषु विवृतिं कुर्वन् ‘अथातस्तत्त्वं व्याख्यास्यामः' 'पृथिव्यापस्तेजोवायुरिति' सूत्रद्वयं
यथाश्रुतार्थत्यागेनान्यथा वर्णयामास । प्रथमसूत्रे तत्त्वपदेन प्रमाणप्रमेयसङ्ख्यालक्षणनियमाशक्यकरणीयतामाह, द्वितीयसूत्रमपि प्रमेयानियमप्रतिपादकं तेन व्याख्यातम् । तत्र हि 'पृथिव्यापस्तेजोवायुरिति' य इति'शब्दः स एवंप्रायप्रमेयान्तरोपलक्षणत्वेन तस्याभिमतः।