________________
आदिकम् ]
प्रमाणप्रकरणम्
नेयं त्वगिन्द्रियकृता न हि तत्करस्थं तत्रैव हि प्रमितिमिन्द्रियमावधाति ॥ दूरात्करोति निशि दीपशिखा च दृष्टा पर्यन्तदेशविसृतासु मतिं प्रभासु। धत्ते धियं पवनकम्पितपुण्डरीकषण्डोऽनुवातभुवि दूरगतेऽपि गन्धे ॥ स एवंप्रायसंवित्तिसमुत्प्रेक्षणपण्डितः। रूपं तपस्वी जानाति न प्रत्यक्षानुमानयोः॥ प्रत्यक्षाद विरलकराङ्मुलिप्रतीतियापित्वादकुशलमिन्द्रियं न तस्याम् । आनाभेस्तुहिनजलं जनः पिबद्धिस्तत्स्पर्शः शिशिरतरोऽनुभूयतेऽन्तः॥ संयोगबुद्धिश्च यथा तदुत्था तथैव तज्जा तदभावबुद्धिः। क्रियाविशेषग्रहणाच्च तस्मा
दाकुञ्चितत्वावगमोऽङ्गुलीनाम् ॥ न हि तत्करस्थं तत्रैवेति । न हि चक्षुः स्वगोलक एव प्रतीति जनयेदित्यभिप्रायः । व्यापित्वादकुशलमिन्द्रियमिति । अस्यार्थः न हि त्वग्गतमेवेन्द्रियं तत्रैव त्वचि प्रतीतिमादधाति इति ब्रूमो येन चक्षुषि तथा अदर्शनादयुक्ततोच्येत, किन्त्वन्तर्गतं व्यापि यदिन्द्रियं तद् बहिस्त्वग्गतस्य वक्राङ्गुलित्वादेः क्रियाविशेषावगमं जनयद् ग्राहकम् । 20 नन्वन्तर्गतस्य त्वगिन्द्रियस्य ग्राहकत्वं क्व दृष्टमित्याह आनाभेस्तुहिनजलमिति । ननु द्रव्यान्तरेण संयोगोऽङ्गुलीनामन्तस्त्वगिन्द्रियेण गृह्यतां नाम अन्तःप्रविष्टेनेवोदकेन, विरलागुलित्वन्तु संयोगाभावः कथं गृह्यतेत्याह संयोगबुद्धिश्चेति । यथा संयुक्ता अगुल्य इमा इति चाक्षुषी बुद्धिरेवं विरला अगुल्य इति, चक्षुष एव तत्रापि व्यापाराविशेषात् । एवं सन्तमसे यथा अगुलिसंयोगग्राहि त्वगिन्द्रियं तथा तत्संयोगाभावरूप- 25 विरलताग्राह्यपि तदेव भविष्यतीत्यर्थः । आकुञ्चितत्वस्य तर्हि वक्रत्वापरपर्यायस्य कथं तेन ग्रहणमिति । तत्राप्याह क्रियाविशेषग्रहणादिति । तस्मात् त्वगिन्द्रियादेव क्रिया