SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्ज [प्रथमम् पद्मामोदविदूरदीपकविभाबुद्धिः पुनलैंगिकी व्याप्तिज्ञानकृतेति का खलु मतिर्मानान्तरापेक्षिणी। संख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकस्तत्सामर्थ्यविवेकशून्यमतिभिमिथ्यैव विस्फूजितम् ॥ ईयत्त्वमविलक्षणं नियतमस्ति मानेषु नः प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते। अशक्यकरणीयतां कथयतान्तु तत्त्वं सतां समक्षममुनात्मनो जडमतित्वमुक्तं भवेत् ॥ इति श्रीजयन्तभट्टकृतायां न्यायमञ्जर्यां प्रथममाह्निकम् । 10 विशेषस्याङ्गुलिगतस्याकुञ्चनाख्यस्य कर्मविशेषस्य विशेषणभूतस्यावगमः। आकुञ्चिता अङ्गुल्य इति विशेष्यज्ञानं यत् तत् तज्जमेव । यथा चक्षुषा चैत्रगतं चलनमुपलभ्य चलत्ययं चैत्र इति विशेष्यज्ञानं चाक्षुषमेवमिदमपीति सिद्धम् । भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे प्रथममाह्निकम् ॥
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy