________________
द्वितीयमाह्निकम्
तत्र प्रत्यक्षलक्षणम्
एवं प्रमाणानां सामान्यलक्षणे विभागे च निर्णीते सति अधुना विशेषलक्षणवर्णनावसर इति सकलप्रमाणमूलभूतत्वेन पूर्वपठितत्वेन च ज्येष्ठत्वात् प्रथम प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाह
इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि
____ व्यवसायात्मकं प्रत्यक्षम् ॥ ४ ॥ प्रत्यक्षमिति लक्ष्यनिर्देशः । इतरल्लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः । समानजातीयं प्रमाणतया अनुमानादि, विजातीयं प्रमेयादि, ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते। प्रत्यक्षलक्षणे सूत्रितार्थविषये पूर्वपक्षः
अत्र चोदयन्ति इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणः स्वरूपं वा विशिष्यते, सामग्री वा, फलं वा । तत्र स्वरूपविशेषणपक्षे यद् एवंस्वरूपं ज्ञानं तत्प्रत्यक्षमिति तत्स्वरूपस्य विशेषितत्वात् फलविशेषणानुपादानाच्च लक्षणमव्याप्त्यतिव्याप्तिभ्यामुपहतं स्यात् । अव्याप्तिस्तावद् अतथाविधस्वरूपस्य बोधस्येन्द्रियादेश्च 15
10
घोरे जगज्जलनिधौ भवतो यामी , मज्जन्ति न स्मृतिपथप्रतिपन्नयापि । सा काप्पचिन्त्यचरितस्य विचित्ररूपा शक्तिर्जयत्युडुपखण्डभृतो भवस्य ॥ प्रज्ञोन्मेषपटु प्रपञ्चय वचो बौद्ध, त्वमप्युद्भटाश्चार्वाक स्वविकल्पजालजटिलाः स्वैरं गिरः स्फारय । रे मीमांसक साङ्ख्य जैन भवतां यत् सम्मतं ब्रूहि तत्
स्वातन्त्र्यान्मम रोचते न हि न हि त्र्यक्षाहतेऽन्यः प्रभुः ॥ ॐ नमः शिवाय । अतथाविधस्वरूपस्येति । संशयविपर्ययात्मकस्येत्यर्थः ।
20.