________________
१०४
न्यायमञ्जयां
[द्वितीयम् निर्मलफलजनकतया लब्धप्रमाणभावस्यापि प्रामाण्यं नोक्तं भवेत् । अतिव्याप्तिश्च तथाविधस्वरूपस्यापि ज्ञानस्याकारस्य वा, संस्कारकारिणो वा, स्मृति जनयतो वा, संशयमादधानस्य वा, विपर्ययमुत्पादयतो वा प्रमाणत्वं प्राप्नोति, फलस्याविशेषितत्वात् । तद्विशेषणाभिधाने पुनरश्रुतसूत्रान्तराध्याहारप्रसक्तिः । अध्याप्तिश्च 5 तदवस्थैवेति न स्वरूपविशेषणपक्षः । नापि सामग्रीविशेषणपक्षः । तत्र हीन्द्रियार्थ
सन्निकर्षोत्पन्नमिति इन्द्रियार्थसन्निकर्षोपपन्नं सामग्रयमिति व्याख्यातव्यम् । अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं ज्ञानमिति च तज्जनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना। फलविशेषणपक्षोऽपि न सङ्गच्छते।
ज्ञानप्रत्यक्षयोः फलकरणवाचिनोः सामानाधिकरण्यप्रसङ्गात्। प्रमाणलक्षण10 प्रस्तावात् प्रत्यक्षं फलमिति कथमैकाधिकरण्यम् । तस्मात् पक्षत्रयस्याप्ययुक्तियुक्त
त्वात् पक्षान्तरस्याप्यसम्भवादयुक्तं सूत्रमिति । तत्र सिद्धान्तपक्षः
अत्रोच्यते । स्वरूपसामग्रीविशेषणपक्षौ तावद्यथोक्तदोषोपहतत्वान्नाभ्युपगम्येते । फलविशेषणपक्षमेव संमन्यामहे । तत्र च यद् वैयधिकरण्यं चोदितम् तद्यतः शब्दाध्याहारेण परिहरिष्यामः । यत एवं यद्विशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति सूत्रार्थः। इत्थच न क्वचिदव्याप्तिरतिव्याप्तिर्वा । न काचित क्लिष्टकल्पमा । यतःशब्दाध्याहारमात्रेण निरवद्यलक्षणोपवर्णनसमर्थसूत्रपदसङ्गतिसम्भवात्। करणं फलं वा प्रत्यक्षपदार्थः ?
ननु समानाधिकरण एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते ? किं यतःशब्दाध्याहारेण ? उक्तमत्र करणस्य प्रमाणत्वाज्ज्ञानस्य च तत्फलत्वात् फलकरणयोश्च स्वरूपभेदस्य सिद्धत्वात् । तदत्र
प्रमाणतायां सामग्रयास्तज्ज्ञानं फलमिष्यते । तस्य प्रमाणभावे तु फलहानादिबुद्धयः॥
25 अव्याप्तिश्च तदवस्थैवेति । संशयादेस्तथाविधफलजनकत्वेऽप्यप्रामाण्यप्रसक्तः।