________________
आह्निकम् ]
आलोचनज्ञानस्य हानादिफलकत्वे शङ्का
ननु स्मृत्याद्यनेकबुद्धिव्यवधानसम्भवात् कथमिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनाज्ञानं हानादिफलं भवेत् ? तथा हि कपित्थादिजातीयमर्थमिन्द्रियादिसन्निकर्षादिसामग्रीत उपलभ्य तद्गतं सुखसाधनत्वमनुस्मरति 'एवञ्जातीयकेन मम पूर्वं सुखमुपजनितमभूदिति' ततः स्मृत्यन्तरं परामर्शज्ञानमस्योपजायते 'अश्व कपित्थजातीय' इति, परामर्शानन्तरं सुखसाधनत्वनिश्चयो भवति तस्मादेष सुखसाधनमिति तत उपादेयज्ञानमुत्पद्यते, यत एष सुखसाधनं कपित्थादिजातीयः पदार्थस्तस्मादुपादेय इति । अत्रान्तरे प्रथमस्येन्द्रियार्थसन्निकर्षजन्मनः कपित्थालोचनज्ञानस्य नामापि नावशिष्यत इति कथमस्य तत्फलत्वमिति ।
प्रमाण प्रकरणम्
यात्मकं
१०५
तत्र न्यायवार्त्तिकटीकाकर्तुं रुचिकारप्रभृतीनां मतम्
अत्राचार्यास्तावदाचक्षते 'साधु चोदितम्' । सत्यम्, ईदृश एवायं ज्ञानानां क्रमः । न वयं प्रथमालोचनज्ञानस्य उपादानादिषु प्रमाणतां ब्रूमः । तथा हि प्रथममिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनज्ञानमिन्द्रियार्थसन्निकर्षादिसामग्री स्वभावस्य प्रत्य
क्षस्य प्रमाणस्य फलमेव, न तु स्वयं प्रमाणतां प्रतिलभते, स्मृतिजनकत्वात् । तदनन्तरं हि सुखसाधनत्वस्मृतिर्भवतीति, सेयमनुस्मृतिरप्रमाणफलमपि सती प्रत्यक्षप्रमाणं सम्पद्यते । तथा 'अयं कपित्थादिजातीय' इतीन्द्रियविशेषपरामर्शोत्पत्तौ इन्द्रियार्थसन्निकर्षेण सह व्याप्रियमाणत्वात् स पुनः परामर्शप्रत्ययः प्रत्यक्षजनितो धूमज्ञानवदनुमानं प्रमाणमुच्यते, परोक्षस्याग्नेरिव सुखसाधने सामर्थ्यस्य ततोऽवगतेः । यद्यपि न काचिदतीन्द्रिया शक्तिरस्मन्मते विद्यते, तथापि स्वरूपसहकार्यादिदृष्टकारणसमूहसन्निधानस्वभावमपि सामर्थ्यमतीन्द्रियमेव । तस्मादेष कपित्थादिजातीयोऽर्थः सुखसाधनमिति वह्निमत्पर्वतप्रतीतिवत्तज्जातीयलिङ्गकमानुमानिकमिदं ज्ञानम् । तदिदमनुमानफलमपि सुखसाधनत्वनिश्चज्ञानमिन्द्रियविषये कपित्थादावुपादेयज्ञानमिन्द्रियार्थसन्निकर्षेण सह
20
5
अत्राचार्यास्तवदिति । वक्ष्यमाणव्याख्यातृमतापेक्षया तावच्छ्दप्रयोगः । ह च सर्वत्राचार्यशब्देन उद्द्योतक रविवृतिकृतो रुचिकारप्रभृतयो विवक्षिताः, व्यास्यातृ
१४
10
15
25