________________
न्यायमञ्जयां
[द्वितीयम्
जनयत्प्रत्यक्ष प्रमाणं भवति। तदेव च हृदि व्यवस्थाप्य भाष्यकृद् बभाषे 'यदा ज्ञानं वृत्तिस्तदा हानोपादानोपेक्षाबुद्धयः प्रमितिरिति । तत्रैव वात्स्यायनभाष्यविवरणकाराणां प्रवरप्रभृतीनां मतम्
व्याख्यातारस्तु ब्रुवते, नायमीदृशो ज्ञानानां क्रमः। आद्यम्, आलोचनाज्ञानसुखसाधनत्वानुस्मृतिमुपजनयतीति .त्यम् । स्मृत्या च तस्य विनश्यत्ता । विनश्यदवस्थञ्चेन्द्रियविषये कपित्थादौ सुखसाधनत्वनिश्चयमादधाति । सुखसाधनत्वज्ञानमेव चोपादेयज्ञानमुच्यते नान्यत्, परामर्शस्तु न कश्चिदन्तराले इति किमसंवे. द्यमानज्ञानकन्थाकल्पनेनेति ।
हानादिफलके प्रत्यक्षे चक्षुःसन्निकृष्टे उपादेयतास्मरणात्मकपरामर्शस्या10 प्रत्याख्येयत्वम्
ननु परामर्शज्ञानमनुभूयत एव, न तु कल्प्यते। धूमज्ञानानन्तरमविनाभावं यत्र धूमस्तत्राग्निरित्यनुस्मृत्य परामृशति तथा चायं धूम इति । असति तु परामर्श न लिङ्गज्ञानं लिङ्गिनि प्रमाणतां प्रतिपद्येत । स्मरणजनकं हि तत् । न च
स्मृतिजनकं प्रमाणमिष्यते । स्मरणानन्तरञ्च लिङ्गप्रतीतिर्भवन्ती नोपलभ्यानु15 वादेन भवेद् अयमग्निमानिति । अपि च तथा च कृतकः शब्द इति यदुपनयवचन
मवयवेषु पठ्यते तस्य किं वाच्यं भविष्यति परामर्शापलापवादिनाम ? स्वप्रति
शब्देन च भाष्यविवरणकृत: प्रवरप्रभृतय इति । यदा ज्ञानं वृत्तिरिति । भाग्यकृता हि "अक्षस्याक्षस्य प्रतिविषयं या वृत्तिः सा प्रत्यक्षम्" इत्यभिधाय “वृत्तिस्तु सन्निकर्षो
ज्ञानं वा" इत्युक्तम्, “यदा ज्ञानं वृत्तिः" इत्याद्यभिहितम् । इन्द्रियस्य हि विषयं प्रति 20 वृत्तिापारः, कदाचित् तेन सन्निकर्षोऽथवा तद्विषयज्ञानजननमिति ।
स्मृत्या च तस्य विनश्यत्ता। स्मृतेर्ज्ञानरूपत्वाज्ज्ञानस्य च ज्ञानान्तरविरोधित्वात् ____ उपलभ्यानुवादेनेति । स्मरणानन्तरं परामर्शानभ्युपगमे धूमज्ञानस्य विनष्टत्वात् स धूमोऽग्निमानित्युपलब्धधूमानुवादेन प्रतीतिः स्यात् नत्वयं धूमोऽग्निमानित्युपलभ्य
मानधूमानुवादेनेत्यर्थः । यदा धूम एवाग्निमत्तया साध्यते तदैवम्, यदा तु पर्वतस्तदापि 25 स धूमवान् प्रदेशोऽग्निमानिति स्यान्न त्वयमिति ।