________________
आह्निकम् ] प्रमाणप्रकरणम्
१०७ पत्तिवच्च परप्रतिपत्तिरवयवैर्जन्यत इति वक्ष्यामः। तस्मादप्रत्याख्येयः परामर्श इति। तत्र सिद्वान्तः अत्र वदन्ति
न तावदन्तरा कश्चित् परामर्शोऽनुभूयते । अनुमेयमितेः पूर्वमूर्ध्वञ्च निगमे स्मृतेः॥ अत एवार्थमालोक्य विनैव हि दवीयसा ।
बिलम्बेन व्यवस्यन्ति ग्रहणादिषुलौकिकाः ॥ लिङ्गज्ञानञ्च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रियमाणं प्रमाणतां प्रतिपत्स्यते । तत्कृतवोपलभ्यानुवादेन लिङ्गिबुद्धिर्भविष्यति । तस्मात कपित्थादिपदार्थ- 10 दर्शनस्य परामर्शसोपानमनारोहत एवोपादेयज्ञानफलता वक्तुं युक्तेति।
___ अपि च अनुमेयविषये वह्नयादौ सुखसाधनत्वानुस्मृतिकृतभुपादेयताज्ञानं तव न समस्त्येव । ततश्च तत्रापि 'तथा चायं ज्वलनजातीय' इति परामर्शो भवताऽभ्युपेय एव । स च किंकरणक इति निरूपणीयम् । न तावदिन्द्रियद्वारकः, पावकस्य परोक्षत्वात, शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते। धूमाख्याल्लि- 15 ङ्गादेव स उत्पद्यत इति चेन्न । लिङ्गस्य परामर्शाविषयीकृतस्यानुमेयमितिजनननपुणानभ्युपगमात् । धूमावमर्शस्य च तदानीमतिकान्तत्वात् । तथा हि प्रथम लिङ्गज्ञानम्, ततो व्याप्तिस्मर गम्, ततो धूमपरामर्शः, ततो बह्निज्ञानम्, तेन धूमपरामर्शस्य विनश्यत्ता, ततोऽग्नौ सुखसाधनत्वानुस्मरणम्, तदा च धूमपरामर्शस्य विनाश एवेति । तस्मिन् विनष्टे न केवलोधूमस्तदानीमनलपरामर्श जनयितुमुत्सहते। 20
अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनर्धूमज्ञानमिन्द्रियादुत्पद्यत इति चेन् मैवम् अननुभवात् । भवतु वा धूमज्ञानं तथापि धूमज्ञानानन्तरं पुनर्व्याप्तिस्मृतिः, पुनधूमपरामर्शश्चावश्यं भवेद् इत्यत्रान्तरे हुतभुजि सुखसाधनत्वानु
ननु वह्निज्ञानानन्तरं धूमपरामर्शस्मरणम्, ततोऽग्नौ सुखसाधनत्वस्मरणम्, तेन धूमपरामर्शस्मरणस्य विनश्यत्ता, ततो विनश्यदवस्थपरामर्शसहितात् सुखसाधनत्व- 25 स्मरणादग्नौ तज्जातीयत्वपरामर्शः, तस्माद् विनश्य स्वस्थाच्च सुखसाधनत्वानुस्मरणात्