________________
१०८
न्यायमञ्जऱ्या स्मृतिरतिक्रान्तेति तत्सहायपरामर्शज्ञानजन्यसुखसाधनत्वनिश्चयोत्पादो न स्यात् । सुखसाधनत्वानुस्मरणेन हि विनश्यदवस्थेन जन्यमानः प्रत्यक्षविषयेऽसौ दृष्ट इति।
अथ मन्यसे, न तदानीं पुनधूमज्ञानव्याप्तिस्मरणतत्परामर्शोत्पादादिज्ञानशृङ्खलाभ्युपेयते, किं तु प्राक्तन एव धूमपरामर्शः कृशानौ सुखसाधनस्वानुस्मरणान्तरं स्मरिष्यते, तेन स्मृतिविषयवत्तिना सता 'तथा चायमग्निजातीय' इति ज्वलनपरामर्शो जनयिष्यत इति, एतदप्ययुक्तम् । अग्निज्ञानानन्तरं युगपत् स्मरणद्वयोदयप्रसङ्गात् तदैव सुखसाधनतानुस्मृतिः तदैव धूम
परामर्शस्मृतिरिति । न हि क्रमोत्पादे कश्चित् कारणमस्ति, ज्ञानयोगपद्यञ्च 10 शास्त्रे प्रतिषिद्धम् । भवतु वा क्रमोत्पादः, तदापि स्मरणद्वयसमनन्तरमुपजाय
मानः पावकपरामर्शो नोपलभ्यानुवादेन जायते। क्रमपक्षेऽपि च वह्निज्ञानानन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्वं भवेत्, ततो धूमपरामर्शस्मरणम्, तेन तस्य विनश्यत्ता, ततोऽग्नौ तज्जातीयत्वपरामर्शः, तेन सुखसाधनत्वस्मृतेविनाश एवेति पुनरपि सा विनष्टा सती सुखसाधनत्वानुस्मृतेनिश्चयजन्मनि न व्याप्रियेतेति । न च धूमलिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितम्, अनलमुपलभ्य हि तद्गतसुखसाधनत्वमनुस्मरति लोको न धूममिति ।
तेनानुमानविषये परामर्शोऽतिदुर्घटः ।
प्रत्यक्षविषयेऽप्येवं किमनेन शिखण्डिना ॥ यत्पुनरुपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यत इति परिचोदितम, तद20 वयवप्रसङ्ग एव निरूपयिष्यामः। तस्मादन्तरावत्तिनः परामर्शज्ञानस्याभावादाद्य
मालोचनाज्ञानमेव हेयादिज्ञानफलं यथोक्तरीत्या भविष्यतीति ।
सुखसाधनत्वनिश्चयो भविष्यतीत्याशङ्कयाह न च धूमलिङ्गानुमितवह्निज्ञानानन्तरमिति ।
किमनेन शिखण्डिनेति । अकिञ्चित्करत्वं परामर्शस्याह । यथा भीष्मवधः 25 किरीटिनैव सम्पादितो मध्ये त्वकिञ्चित्करः शिखण्डी कृत इति ।