________________
आह्निकम् ]
प्रमाण प्रकरणम्
ननु च प्रत्यक्षफलमिह मीमांस्यं वर्त्तते । स चायं सुखसाधनत्वनिश्चयः तज्जातीयत्वाल्लिङ्गादुद्गम्यमान आनुमानिक इति न प्रत्यक्षफलतामवलम्बते । सत्यमेतत् किन्तु सम्बन्धग्रहणसमये सुखसाधनत्वनिश्चयः प्रत्यक्षजनितोऽपि समस्ति यतोऽनुमानं प्रवर्त्तते, महानसादौ धूमाग्निदर्शनवत् । अतः सम्बन्धग्रहणकालभाविनं सुखसाधनत्वनिश्चयं चेतसि निधाय भाष्यकारस्तत्फलं प्रत्यक्षज्ञानस्य वर्णितवानिति ।
शक्तेः प्रत्यक्षग्राह्यत्वम्
सम्बन्धग्रहणकालेऽपि सुखसाधनत्वशक्तेरतीन्द्रियत्वात् कथं प्रत्यक्षगम्यता ? तज्जातीयत्वाल्लिङ्गादेव तदापि तद्ग्रहणे इष्यमाणे, ततः पुनः सम्बन्ध - ग्रहणापेक्षणादनवस्था । सुखादेव कार्यात् तदा तदवगम इति चेत् तदापि नाज्ञातसम्बन्धमवगतिजननसमर्थमिति तत्सम्बन्धग्रहणवेलायामपि शक्तिग्रहणे प्रत्यक्षस्याक्षमत्वादनुमानान्तरापेक्षायामनवस्था तदवस्था । उच्यते
न खल्वतीन्द्रिया शक्तिरस्माभिरुपगम्यते ।
यया सह न कार्यस्य सम्बन्धज्ञानसम्भवः ॥ स्वरूप सहकारिसन्निधानमेव शक्तिः । सा च सुगमैव ।
सहकारिणां मध्येऽदृष्टमप्यनुप्रविष्टम्, न च तत्प्रत्यक्ष गम्यम्, अतीन्द्रियत्वाद्धर्मस्येति, सापि न सुगमा शक्तिः नैतत् न धर्मादेः शक्तित्वादतीन्द्रियत्वम् अपि तु तन्नसगिकमेव, जगद्वैचित्र्येण च तदनुमानं वक्ष्यामः । तदेवं तदितरसहकारिस्वरूपस निधानात्मिकायाः शक्तः प्रत्यक्ष ग्राह्यत्वसम्भवादुपपन्नं तज्जातीयत्वलिङ्गस्य सम्बन्धग्रहणम् ।
पुनः सम्बन्धग्रहणापेक्षणादनवस्थेति । तज्जातीयत्वस्य लिङ्गस्य ते सह गृहीतसम्बन्धस्य तद्गमकत्वम् । न च सुखसाधनत्वस्या यथाग्रहणं सम्भवतीति पुनस्तस्मादेव लिङ्गात् तदवगमे तावत्सम्बन्धग्रहणापेक्षित्वं यावज्जातमात्रस्य सुखहेतुत्वावगमः । तत्रापि जन्मान्तरे लिङ्गलिङ्गिनोरविनाभावग्रहणे जातमात्रस्यापि तस्मादेव लिङ्गादवगतिः, जन्मान्तरेऽप्येवमेवेत्यनवस्था |
न खल्वतीन्द्रिया शक्तिरिति । ननु यद्यतीन्द्रिया नाभ्युपगम्यते शक्तिः कथं तर्ह्यदृष्टस्य शक्तित्वमिति । तत्राह न धर्मादेः शक्तित्वादतीन्द्रियत्वमिति ।
१०९
5
10
15
20
25