________________
११०
न्यायमञ्जऱ्या
[द्वितीयम्
सम्बन्धस्य प्रत्यक्षगम्यत्वविचारः
ननु कपित्थादिकार्यस्य सुखस्येदानी न चक्षुह्यत्वमिति सम्बन्धिग्रहणाभावात् कथं चाक्षुषप्रत्ययगम्यः सम्बन्धः ? न चाक्षुषप्रत्यक्षगम्यः सम्बन्धः, किन्तु मानसप्रत्यक्षगम्यः ।
सुखादि मनसा बुद्ध्वा कपित्थादि च चक्षुषा ।
तस्य कारणता तत्र मनसैवावगम्यते ॥ ननु च मनसा कपित्थादेः सुखसाधनत्वग्रहणाभ्युपगमे बाह्यविषयप्रमितिषु मन एव निरङकुशं करणमिदानीं संवृत्तमिति कृतं चक्षुरादिभिः, अतश्च न कश्चिदन्धो बधिरो वा स्यात् ?
नैष दोषः प्रथमप्रवृत्तसमनस्कबाह्येन्द्रियजनितविज्ञानविषयीकृतवपुषा वाह्यस्य वस्तुनो मनोग्राह्यत्वाभ्युपगमात् तस्यैव नियामकत्वान्नाशृङ्खलमन्तःकरणं बाह्यविषये प्रवर्तते।
ननु च सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाधनत्वावधारणम्, तहि तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव सुखसाधनत्वनिश्चयोऽस्तु,
कि तज्जातीयत्वलिङ्गापेक्षणेनेति ? मैवम् । शब्दलिङ्गेन्द्रियाद्युपरतौ केवलमन्तः15 करणं करणं कल्प्यते, परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात् । लिङ्गाद्युपा
यान्तरसम्भवे तु यदि मन एव केवलं कारणमुच्यते, तन्मानसमेवैकं प्रमाणं स्यान न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गन।
तस्मात्सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं ज्ञानं तदुपादेयादिज्ञानफलमिति, भाष्यकृतश्चेतसि स्थितम् । सुखसाधनत्वज्ञानमेवोपादेयादिज्ञानमित्युक्तम् । प्रमाणतत्फलयोरभेदशङ्कानिरासः
आह किमर्थमयमीदृशः क्लेश आश्रीयते ? प्रमाणादभिन्नमेव फलमस्तु । तदेव चक्षुरादिजनितं कपित्था दिपदार्थदर्शनं विषयप्रकाशेन व्याप्रियमाणमिवाभातीति करणमुच्यताम् । तदेव विषयानुभवस्वभावत्वात् फलमिति कथ्यताम् । इत्थञ्च प्रमाणफले न भिन्नाधिकरणे भविष्यतः, अन्यत्र प्रमाणमन्यत्र फल
___ इत्थञ्च प्रमाणफले न भिन्नाधिकरणे भविष्यत इति । अनेन लोकप्रसिद्धयानुगुण्यमस्य पक्षस्य दर्शयति । लोके हि परशुनिपातस्य करणस्य छिदेश्च फलस्यैकवृक्षगत
20