________________
आह्निकम् ] प्रमाणप्रकरणम्
१११ मिति । तदुक्तम् 'सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत्' इति ।
तदिदमनुपपन्नम्, प्रमाणस्य स्वरूपहानिप्रसङ्गात् । करणं हि प्रमाणमुच्यते प्रमीयते चानेनेति । न च क्रियैव क्वचित करणं भवति । क्रियायां साध्यायां कारक किमपि करणमुच्यते । तत्र यथा दात्रेण चैत्रः शालिस्तम्भं लुनातीति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते, तहापि चक्षुषा घटं पश्यतीति दर्शनक्रियातः 5 पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेवेति । प्रमा प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रं कृतिः करणमितिवत् ।
यत्तु न भिन्नाधिकरणे प्रमाणफले इत्थं भविष्यत इति सेयमपूर्ववाचोयुक्तिः । किमत्राधिकरणं विवक्षितम् ? यदि तावद्विषयस्तदस्त्येवैकविषयत्वम् । यद्विषयं हि दर्शनं स एव चक्षुरादेः करणस्य विषयः । आश्रयोऽस्त्वधिकरणमिति बौद्ध- 10 गृहे तावदवाचको ग्रन्थः, क्षणिकत्वेन सर्वकार्याणां निराधारत्वात् । अस्मत्पक्षे. तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयोदृष्टः । तथा चक्षुज्ञानयोरपि भविष्यतीति । क्वचित्तु भिन्नयोरपि ज्ञानयोः फलकरणत्वेन स्थितयोलिङ्गलिङ्गिज्ञानयोरिव विशेषणविशेष्यज्ञानयोरिव चैकात्माश्रयत्वमस्ति । नत्वनेन समाना
त्वेन दर्शनात् इहापि तत्रैव ज्ञाने करणत्वं फलत्वञ्चेति । सव्यापारप्रतीतत्वादिति । 15 नियतार्थाधिगमे सत्यापाररय नियतार्थपरिच्छेदाख्यव्याणरवत: प्रतीतत्वादुपलब्धत्वात् फलमेव सत् प्रमाणमिति भण्यते । इदमेव हि दात्रादेः करणस्य करणत्वं यत् क्रियायां व्यापृतत्वम् । नन्वर्थपरिच्छेदात्मकत्वाज्ज्ञानस्य कथं स्वात्मन्येव व्यापृतत्वोक्तिः ? अस्त्येतत्, किन्तु यदा अर्थाकारानुकारि ज्ञानमुत्पद्यते तदैवमुपचर्यते। यथा पितृसदृशमपत्य उपलभ्य पितुरनेन रूपं गृहीतमिति लोको व्यपदिशति, अथ च नानेन किञ्चिद्रूपं 20 गृहीतम्; एवं नियताकारं ज्ञानमुपलभ्यार्थग्रहणे व्यापृतवमर्थोऽनेन गृहीतम् इत्येवं कल्पयति । यदाह
यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् ।
हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि दृश्यते ॥ इति ।। कृतिः करणमिति । यथा भावे सिद्धयतोऽपि करणशब्दस्य, न कारकस्या- 25 धिकारे ग्रहणमिति भावः।