________________
११२
5
10
15
20
25
[ द्वितीयम्
श्रयत्वेन प्रयोजनं चक्षुरादावनिर्वहणात् । अथैकफलनिष्पत्तौ व्यापारः समानाश्रयत्वमुच्यते, तदपि भवतु कारकान्तराणाम्, न तु फलस्वभावस्य ज्ञानस्य फलनिष्पत्तौ सव्यापारत्वमुपपद्यते, अपि तु पृथग्भूतफलनिर्वृ त्तावेवेति ।
न्यायमञ्जय्य
ननु वस्तुस्थित्या फलमेव ज्ञानमुच्यते, न तु विषयानुभवः, विषयानुभवे स व्यापारो भवति । अथ मनुषे विषयाधिगमाभिमानस्तस्मिन् सति भवतीति, harsafभमानो नाम ? विषयानुभवाद्भिन्नः, अभिन्नो वा । अभेदे सति तस्मिन् सति भवतीत्यसङ्गता वाचोयुक्तिः । भेदे त्वस्मन्मतानुप्रवेशः । अपि च ज्ञानं विषयाधिगमे व्यापृतमिति कृत्वा विषयाधिगमाभिमानमुपजनयत्युत विषयाधिगमस्वभावत्वादेवेति विचारे विषयाधिगमात् पृथग्भूतस्य तत्र व्याप्रियमाणस्यानुपलम्भाद्विषयाधिगमस्वभावमेव ज्ञानमवधार्यते तत्कृतश्चाभिमान इति फलमेव ज्ञानमवकल्पते न करणमिति । तथा च लोकः फलत्वमेव ज्ञानस्यानुमन्यते न करणत्वम् । तथा ह्येवं वदति 'चक्षुषा पश्यामि' 'लिङ्गन जानामी'ति न तु ज्ञानेन जानामीत्येवं व्यपदिशन् कश्चिद् दृश्यते ।
ननु च सत्स्वपि चक्षुरादिषु विषयज्ञानमनुपजनयत्सु न करणतां व्यपदिशति लोको, जनयत्सु च व्यपदिशतीति लोके करणोत्पादकत्वादेव तेषां करणत्वव्यपदेशो न साक्षात्करणत्वादिति ।
तदयुक्तम् । चक्षुराद्येव करणम्, न तु तेनान्यत्करणमुपजन्यते । किं हि तदन्यत्करणम् ? ज्ञानमिति चेत्, कस्यां क्रियायां तत्करणमिति परीक्ष्यतामेतत । न ह्यात्मन्येव किञ्चित् करणं करणं भवतीति । यत्तु ज्ञानमजनयति चक्षुरादौ न करणतामाचष्टे लोकस्तद्युक्तमेव । न हि क्रियोत्पत्तावव्याप्रियमाणं करणं कारकं भवति । तेन चक्षुरादेर्ज्ञानक्रियामुपजनयतः करणत्वम्, ज्ञानस्य फलत्वमेवेति युक्तस्तथाव्यपदेशः ।
प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगम्यताम् । भिन्नं फलमुपेतव्यमेकत्वे तदसम्भवात् ॥
विषयाधिगमाभिमान इति । अधिगतोऽयं मया घट इत्येवंरूपोऽत्राभिमानो
विवक्षितः ।