________________
आह्निकम् ] प्रमाणप्रकरणम्
११३ यस्तु मूढतरः प्रमाणप्रमेयफलव्यवहारमेकत्रैव ज्ञानात्मनि निर्वाहयितुमुद्यच्छति
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः ।
. ग्राहकाकारसंवित्योस्त्रयं नातः पृथक् कृतम् ॥ इति । तमपवर्गाह्निके ज्ञानाद्वैतदलनप्रसङ्गन दुराचार निर्भर्त्तयिष्यामह इत्यलं 5 विस्तरेण।
तस्मात् सुष्ठूक्तं 'यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलमि'ति, तदेवं फलविशेषणपक्षे 'यतः' शब्दाध्याहारेण वाचकं सूत्रम्, यत इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशेषितं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति । तत्रेन्द्रियार्थसन्निकर्पोत्पन्नपदमर्थानपेक्षजन्मनः स्मृत्यादिज्ञानस्य, अर्थजनितस्यापि च परोक्षविषय- 10 स्यानुमानादिज्ञानस्य व्यवच्छेदार्थम् । अतस्तज्जनकस्य न प्रत्यक्षता प्रसज्यते। प्रत्यक्षलक्षणेऽतिव्याप्तिनिरासः
नन्विन्द्रियार्थसन्निकर्षात्पन्नमिन्द्रियगत्यनुमानमप्यस्ति, तद्धीन्द्रियार्थसन्निकर्षेण लिङ्गभूतेन जन्यते देशान्तरप्राप्त्येव तपनगमनानुमानम् इति कथमनेन 15 पदेनानुमानमपाक्रियते ?
नैतदेवम् । इन्द्रियेण स्वविषयसनिकृष्टेन सता तत्रैव यद्विज्ञानमुत्पद्यते तदिन्द्रियार्थसन्निकर्षोत्पन्नमिह ब्रूमहे, न चेदृशमिन्द्रियगत्यनुमानम् । कुतो विशेषप्रतिलम्भ इति चेद्, उत्पन्नग्रहणादिति ब्रूमः। उत्पन्नग्रहणेन हि सन्निकर्षस्य कारकत्वं ख्याप्यते, तच्चापीन्द्रियविषयेऽर्थे ज्ञानमुत्पादयतो निर्वहति, इन्द्रियगत्यनुमाने 20 तु न सन्निकर्ष कारकमाहुरपि तु ज्ञापकम् । अत एव स्वग्रहणसापेक्षस्तदनुमानेऽसौ व्याप्रियते न रूपादिप्रमिताविव इतरनिरपेक्ष इति ।
यदाभासं प्रमेयं तदिति । आभासत इत्याभासो ग्राह्याकारः। य आभासो यस्मिस्तद् यदाभासम्; यस्तत्र ज्ञाने ग्राह्याकारः प्रतिभाति तत् प्रमेयमित्यर्थः ।
इन्द्रियगत्यनुमानमप्यस्तीति । न हि गोलकस्थस्येन्द्रियस्यासत्यां गतौ बाह्येन 25 विषयेण सन्निकर्ष उपपद्यत इति सन्निकर्षात् तद्गत्यनुमानम् ।