________________
११४
न्यायमञ्जऱ्या
[द्वितीयम् प्रत्यक्षलक्षणघटकपदार्थनिर्वचनम्
इन्द्रियाणि घ्राणरसननयनस्पर्शनश्रोत्राणि पृथिव्यादिभुतपञ्चकप्रकृतीनि वक्ष्यन्ते।
___ अर्थास्तु गन्धरूपरसस्पर्शशब्दगन्धत्वादिस्वजात्यवच्छिन्नाः, तदधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि, तदधिष्ठानाः संख्यादयो गुणाः, उत्क्षेपणादीनि कर्माणि, तवृत्तीनि सामान्यानि, येषां स्पर्शनेन चक्षुषा ग्रहणं कणवतमते निरूपितं तेऽर्थाः, प्रागुक्तश्चाभावोऽप्यर्थ एव, विचार्य गम्यमानत्वात् ।
सन्निकर्षस्त्विन्द्रियाणामर्थैः सह षट्प्रकारः । तत्र द्रव्यं चक्षुषा, त्वगिन्द्रियेण वा संयोगाद् गृह्यते । तद्गतो रूपादिर्गुणः संयुक्तसमवायात् । रूपत्वादिसामान्यानि 10 संयुक्तसमवेतसमवायाद् गृह्यन्ते। चक्षुषा संयुक्तं द्रव्यम्, तत्र समवेतं रूपम्, रूपे
च समवेतं रूपत्वमिति । समवायाच्छब्दो गृह्यते । श्रोत्रमाकाशद्रव्यम्, तत्र समवेतः शब्दः । शब्दत्वं समवेतसमवायाद् गृह्यते, श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति । संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम् । इह घटो नास्तीति चक्षुषा
संयुक्तो भूप्रदेशस्तद्विशेषणीभूतश्वाभाव इति । 15 सन्निकर्षस्यावश्यकत्वम्
ननु सन्निकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ब्रूमः। यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितोऽपि ततोऽर्थ उपलभ्येत, न चोपलभ्यते, तस्मादस्ति सन्निकर्षः।
नन्वव्यवधानमेवास्तु किं सन्निकर्षेण ? मैवम् । इन्द्रियाणां कारकत्वेन प्राप्य20 कारित्वात्, संसृष्टञ्च कारकं फलाय कल्पत इति कल्पनीयः संसर्गः । एतच्चे
न्द्रियपरीक्षाप्रसङ्गे निपुणं निर्णेष्यत इति नेह विविच्यते । रसनस्पर्शनयोश्च स्पष्टं प्राप्यकारित्वमुपलभ्यत इति तत्सामान्यादिन्द्रियान्तरेष्वपि कल्पनीयमिति ।
नन्वेवं सत्याक्षिप्तः कारकत्वादेव सन्निकर्ष इति स्वकण्ठेन कस्मादुच्यते ? . षड्विधत्वज्ञापनार्थमित्युक्तम् । उत्पन्नग्रहणेन इन्द्रियार्थयोर्ज्ञानजनकत्वम् अर्थस्य 25 कर्मत्वेन ।
नन्वर्थस्य ज्ञानजनकत्वं कुतोऽवगम्यते ? तद्विषयज्ञानोत्पादाद् । एवमाकारस्य निराकृतत्वात् प्रकारान्तरेण प्रतिकर्मव्यवस्थाया असिद्धः।