________________
आह्निकम् ]
प्रमाणप्रकरणम्
११५
ननु प्रयोजनमेतत्, प्रमाणं पृष्टोऽसि, तद् ब्रूहि । उच्यते । एतदेव प्रमाणम्, अन्यस्यापि वीरणादेः कर्मकारकस्य कटादिकार्योत्पत्तौ प्रत्यक्षानुपलम्भप्रतिपन्नाभ्यामन्वयव्यतिरेकाभ्यां यथा कारणत्वमवधार्यते तथार्थस्यापि ज्ञानोत्पत्तौ । यथा हि देवदत्तार्थी कश्चित् तद्गृहं गतस्तत्रासन्निहितं न पश्यति देवदत्तं क्षणान्तरे चैनमायातं पश्यति तत्रान्वयव्यतिरेकाभ्यां देवदत्तसदसत्त्वानुत्तिनौ ज्ञानो- 5 त्पादानुत्पादाववधार्य मानसेन प्रत्यक्षेण चन्दनसुखवदस्य तत्कारणतां प्रतिपद्यते ।
ननु वीरणकटयोः पृथगुपलम्भायुक्त एष न्यायः। अर्थो ज्ञानात् पृथङ् न कदाचिदुपलभ्यत इति दुर्गमौ तत्रान्वयव्यतिरेको । उच्यते । अयमेव पृथगुपलम्भो यदसन्निहितेऽर्थे न तद्विषयमबाधितं ज्ञानमुत्पद्यत इति। तदलमस्मिन्नवसरे ज्ञानवादगर्भचोद्योविभावयिषया, भविष्यत्येतदवसर इति। यथा चेन्द्रियाणां 10 करणानामन्वयव्यतिरेकाभ्यां ज्ञानकारणत्वम् एवमर्थस्य करणेऽपीत्युपन्नग्रहणेन दर्शितम्। प्रत्यक्षलक्षणेऽव्याप्तिनिरासः
नन्विन्द्रियार्थसन्निकर्षोत्पन्नपदेन सुखादिविषयं प्रत्यक्षं न संगृहीतम् ? न न संगृहीतम्, मनस इन्द्रियत्वात् सुखादेरर्थस्य तद्ग्राह्यत्वात्, भौतिकघ्राणादीन्द्रिय- 15 धर्मवलक्षण्यात्तु मनसस्तद्वर्गे परिगणनं न कृतमिति ।
प्रत्यक्षप्रवृत्तिप्रकारः - तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात् प्रवर्तते । तत्र बाहये रूपादौ विषये चतुष्टयसन्निकर्षाज् ज्ञानमुत्पद्यते, आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति । सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते, तत्र चक्षुरादिव्यापाराभावात्। 20 आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगान्जानमुपजायते, तृतीयस्य ग्राह्यस्य ग्राहकस्य तत्राभावात्। तस्मात् सुखाविज्ञानसंग्रहादिन्द्रियार्थसन्निकर्पोत्पन्नमिति युक्तमुक्तम् । आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितं सर्वप्रमाणसाधारणत्वादिति।
घ्राणादीन्द्रियधर्मवैलक्षण्यादिति । नित्यत्वानियतविषयत्वादिना वैलक्षण्यम्। 15