________________
न्यायमञ्जयां
[द्वितीयम्
प्रत्यक्षलक्षणे ज्ञानपदसार्थक्यम
ज्ञानग्रहणं विशेष्यनिर्देशार्थम्, तस्य हीन्द्रियार्थसन्निकर्षात्पन्नत्वादीनि विशेषणानि । तानि असति विशेष्ये कस्य विशेषणानि स्युरिति ।
अथ वा सुखादिव्यावृत्त्यर्थ ज्ञानपदोपादानम् । इन्द्रियार्थसन्निकर्षोत्पन्नं हि सुखमपि भवति तत्र तज्जनकं कारकचक्रं प्रमाणं मा भूत्, ज्ञानजनकमेव प्रमाणं यथा स्यादिति ज्ञानग्रहणम् । शाक्यमते सुखादेरपि ज्ञानरूपत्वम्
अत्र शाक्याश्चोदयन्ति न ज्ञानपदेन सुखादिव्यवच्छेदः कत्तु युक्तः, शक्यो वा, सुखादिनामपि ज्ञानस्वभावत्वात् । ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वेषः 10 प्रयत्न इति । कारणाधीनो हि भावानां भेदो भवितुमर्हति । समानकारणानामपि
तु भेदेऽभिधीयभाने न कारणकृतं पदार्थानां नियतं रूपमिति तदाकस्मिकत्वप्रसङ्गः । तदुक्तम्
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ इति । तस्माज ज्ञानरूपाः सुखादयः, तदभिन्नहेतुजत्वादिति । सुखादेर्शानातिरिक्तत्वम्
तदिदमनुपपन्नम् प्रत्यक्षविरुद्धत्वाद्धेतोः । सुखादि संवेद्यमानमानन्दादिरूपतयाऽनुभूयते, ज्ञान विषयानुभवस्वभावतयेति, प्रत्यक्षसिद्धभेदत्वात् कथमभेदेऽनुमानं
क्रमते । अत एव इदमपि न वचनीयम् ‘एकमेवेदं संविद्रूपं हर्षविषादाद्यनेका20 कारविवर्त्त पश्यामस्तत्र यथेष्टं सज्ञाः क्रियन्तामि'ति । संविदो विषयानुभवस्वभावतयैव प्रतिभासात्, सुखादेश्च विषयानुभवस्वभावानुस्यूतस्याप्रतिभासात्,
तदतद्रूपिणो भावा इति । तद्रूपिणस्तद्रूपवन्तः शाल्यङ्कुराः, अतद्रूपिणश्चातद्रूपवन्तो यवाङ्कुराः । शाल्यङ्करा यवाङ्कराश्च कथमेकरूपा अनेकरूपाश्चेत्यर्थः । एवं गूढाशयेन पृष्टे स्पष्टमुत्तरमाह तदतद्रूपहेतुजाः। तद्रूपैरेकरूपैः शालिबीजैर द्रूपैभिन्नरूपैश्च यवबीजैर्जनिता इति । परः स्वाभिप्रायमाह तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजमिति ।
एकमेवेदमिति । हर्षविषादादिरनेकाकारो विवर्तः परिणामो यस्य ।