________________
आह्निकम् ]
प्रमाणप्रकरणम्
ज्ञानमेव विषयग्रहणरूपं प्रकाशते, न सुखं दुःखं वा । यस्तु सुखज्ञानं दुःखज्ञानमिति प्रतिभासः स ज्ञानस्वभावभेदकृत एव संशयज्ञानं विपर्ययज्ञानमितिवत्, उक्तमत्र संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति । संशयो हि विषयग्रहणात्मकोऽनुभूयते, अनिश्चितं तु विषयं गृह्णाति । विपर्ययोऽपि विषयग्रहणात्मक एव विपरीतमसन्तं वा विषयं गृह्णाति । न तु विषयग्रहणस्वभावं सुखं दुःखञ्चानुभूयते। : अन्य एवायं ग्राौकस्वभाव आन्तरो धर्मः सुखदुःखादिरिति, घटज्ञानवद् विषयतयैव ज्ञानं भिनत्ति, न स्वभावभेदेन संशयवदिति । तत्रतत्स्यात् ।
स्वप्रकाशत्वात् सुखादेर्न ग्राह्यकस्वभावत्वम्, अतश्च ग्राह्यग्रहणोभयस्वभावत्वाज ज्ञानमेव तदिति । मैवं वोचः । प्रकाशत्वं ज्ञानेऽपि प्रतिक्षिप्तं प्रतिक्षेप्स्यते, तत्कुतः सुखादौ भविष्यति ? न हि ग्रहणस्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति। 10
नन्वस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात् सर्वदा सुखित्वं न कदाचिद्वा स्यादिति । नैतदेवम् । उत्पन्नमेव सपदि सुखं गृह्यते ज्ञानेनेति कथमनुत्पन्नान्न विशिष्यते ? प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः, स्वप्रकाशस्य दीपादेः सर्वान् प्रत्यविशिष्टत्वात् । क्वचित् सन्ताने स्वप्रकाशसुखोत्पादात् तेनैव स्वप्रकाशेन सुखेनान्योऽपि सुखी स्याद् यस्यापि सुखं नोत्पन्नमिति । किञ्च किमेकमेव 15 ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते, उत किञ्चित्सुखात्मकं, किञ्चिद् दुःखात्मकं ज्ञानमिति ? आये पक्षे सर्वाकारखचितज्ञानोपजननादेकस्मिन्नेव क्षणे परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धवेदनप्रसङ्गः, उत्तरस्मिस्तु किञ्चित् सुखज्ञानं किञ्चिदुःखज्ञानमिति यत् किञ्चित्सुखदुःखचितं विषयानुभवस्वभावमपि ज्ञानमनुभूयमानमेषितव्यमेव । तच्च न स्वच्छम्, अपि तु केनचिद्घटादिनाविषयेणोपरक्त- 20 मन्वयव्यतिरेकाभ्याञ्च घटाद्युपजननापायेऽपि बोधस्वभावमनुवर्तमानं प्रतीयते।
न स्वभावभेदेन संशयवदिति । यथा संशयरूपत्वेनोभयकोटिस्पृश्यस्वभावेनानुभयकोटिस्पृशो ज्ञानान्तराद् विशिष्यते 'संशयात्मक मेतज्ज्ञानं न व्यवसायात्मकम्' इति तथा न सुखज्ञानम्, अपि तु विषयकृत एव तस्य भेदः 'सुखस्य ज्ञानम्' इति ।
तच्च न स्वच्छमिति । यदि हि विषयानुरागरहितस्य बोधमात्रस्यानुभवनं 25 स्यात् तदा आत्मीयेन सुखात्मनापि स्वरूपेण तस्यानुभवो युज्यतेत्यभिप्रायः । अन्वयव्यतिरेकाभ्याञ्चेति । अयं भावः । सुखादयो ग्राह्याः, न च ग्राह्यरूपमेव ग्राहकम् ।