________________
न्यायमञ्जय
[ द्वितीयम्
तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन विषयभावजुषा घटादिनेवोपरज्यत इति गम्यते, न स्वरूपेणैव सुखात्मकम्, ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्याया अदृष्टत्वादिति । तस्मान्न बोधरूपाः सुखादय: । अभिन्नहेतुजत्वादिति चायमसिद्धो हेतु:, समवायिकारणस्यात्मनोऽसमवायिकारणस्यात्ममनः संयोगस्या5 भेदेऽपि निमित्तकारणस्य सुखत्वज्ञानत्वादभिन्नत्वात् ।
११८
10
15
कार्योत्पत्तेः पूर्वमाश्रयाभावान्निराश्रयं सुखत्वादि न कारकं स्यात्
ननु सुखोत्पादात् पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात् ? कश्वापि सुखहेतुभिः कारकैः संसर्गः ? असंसृष्टञ्च कथं कारकं स्यात् ?
उच्यते । सर्व सर्वगतानि सामान्यानि साधयिष्यन्त इति सन्ति तत्रापि सुखत्वादीनि । योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत् । धर्माधर्मो हि सर्वस्य प्राणिनां सुखदुःखहेतोर्जायमानस्य शाल्यादेः कार्यस्य कारणम् । तयोश्च तत्कारणैर्बीज क्षितिजलादिभिः सह योग्यतैव संसर्गः । एवं सुखत्वादीनामपि स्यात् । तस्मान्निमित्तकारणभेदाद्भिन्नानि ज्ञानसुखादीनि कार्याणि ।
25
निमित्तकारणन्यत्वमपि कार्यस्य भेदकम् । विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥
यदि हि ग्राह्यरूपमेव ग्राहकं स्यात् तदा 'घटो मया ज्ञातोऽधुना पटं जानामि' इत्यादौ ग्राह्यरूपानुवृत्तिवद् ग्राहकरूपानुवृत्तिरपि नोपलभ्ये पते च बोधरूपोऽनुवर्तमानो ग्राहकाकारः, ततोऽवसीयते ग्राह्येणोपरक्तमेव ज्ञानं न ग्राह्यरूपमिति । सत्यपि घटे कदाचिदभावाद्, असत्यपि च तस्मिन् पटादौ भावात्, ततो व्यावृत्तरूपादन्यैव विलक्षण20 बोधरूपता प्रतीयत इति । अन्यदा अदृष्टत्वादिति । यदि सुखमेव ज्ञानं स्यान्न सुखस्य ज्ञानम्, तदा तदनन्तरभाविनि ज्ञाने बोधरूपतावत् सुखरूपतायनुवर्तेत । 'अन्यदा वा दृष्टत्वात्' प्राङ्नीत्या यदा ग्राह्याद् भिन्नं बोधस्वभावं ज्ञान उपलब्धं तद्वदत्रापि भवतु, अस्यापि ग्राह्यत्वात् ।
योग्यतालक्षण एवेति । नियतसुखादिकार्य गम्यः कश्चित् सम्बन्धविशेषो योग्यताख्यः ।
विलक्षणा हि दृश्यन्त इति । समवायिकारणानां परमाणूनामग्निसंयोगस्य