________________
आह्निकम् ]
प्रमाण प्रकरणम्
अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम् । सुखदुःखादि सर्वन्तु विषयज्ञानपूर्वकम् ॥ विषयानुभवोत्पाद्या यत्रापि न सुखादयः । तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः ॥
क्वचित्तु सङ्कल्पोऽपि सुखस्य कारणतां प्रतिपद्यते । तस्मात् सर्वं सुखादि ज्ञानपूर्वकमेव । ज्ञानमपि ज्ञानपूर्वकमेवेति चेद्, उपरिष्टान्निराकरिष्यमाणत्वात् । न हि गर्भादौ, मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति । वक्ष्यामः । तेन सुखादीनां वैलक्ष्यण्योपपादनात् सुखादिव्यवच्छेदस्य सिद्धत्वात् । अव्यभिचारिपदादेव ज्ञानव्यवच्छेदः ?
व्यभिचाराव्यभिचारौ हि ज्ञानस्य धर्मो न सुखादेरतस्तदुपादानात्तद्धर्मयोगि ज्ञानं लभ्यत एव किं ज्ञानग्रहणेन ? नैतदेवम्, सुखस्यापि सव्यभिचारस्य दृष्टत्वात् । किं पुनः सुखं व्यभिचारवद् दृष्टम् ? यदेतत् परदाराभिमर्शादिनिषिद्धाचरणसम्भवं सुखं तद् व्यभिचारि ।
ननु सुखस्य कीदृशो व्यभिचारः ? ज्ञानस्यापि कीदृशो व्यभिचारः ? अतस्मिंस्तथाभावः । सुखस्यापि अतस्मिंस्तथाभाव एव । किं परपुरन्धिपरिरम्भसम्भवं सुखं सुखं न भवति ? किं शुक्तिकायां रजतज्ञानं ज्ञानं न भवति ? ज्ञानं तद्भवति किं तु मिथ्या । इदमपि सुखं भवति किं तु मिथ्या ।
ननु न सुखं मिथ्या, तदपि ह्यानन्दस्वभावमेव । यद्येवं शुक्तिकायां रजतज्ञानमपि न मिथ्या, तदपि हि विषयानुभवस्वभावमेव ।
ननु विषयानुभवस्भावमपि तज्ज्ञानं विषयं व्यभिचरति । सुखमपि तर्हि इदमानन्दस्वभावमपि विषयं व्यभिचरत्येव । किमसुखसाधनेन तज्जनितम् ? ज्ञानमपि किमज्ञानसाधनेन जनितम् ?
११९
5
23
चासमवायिकारणस्याभेदेऽपि रूपत्वरसत्वादिनिमित्तकारणभेदात् पाकजानां रूपरसादीनां वैलक्षण्यं भेदः ।
क्वचित्तु सङ्कल्पोऽपीति । यत्र भाविनं स्त्र्यादिसङ्गमं चित्ते सङ्कल्पयति ।
आनन्दस्वभावमपि विषयं व्यभिचरत्येवेति । सुखजनकमत्र विषयत्वेन 25 विवक्षितम्, सुखस्य तदालम्बनत्वेनोत्पादात् ।
5