________________
१२०
5
10
व्यवसायपदेनैव ज्ञानलाभसम्भवे तद्ग्रहणे हेतु प्रदर्शनम्
अपर आह । किमनेन डिम्भकलहेन । मा भूदव्यभिचारिपदाज्ज्ञानस्य लाभस्तथापि व्यवसायात्मकपदाल्लभ्यत एव ज्ञानम् । न हि सुखदुःखादयो व्यवसायात्मका भवन्ति, किन्तु ज्ञानमेव तथाविधमिति । संशयव्यवच्छेदार्थञ्च तत्पदमिति चेत् । सत्यम् । सुखादिव्यवच्छेदमपि कर्तुमलमेव भवति व्यवसायात्मकत्वस्य सुखादिष्वसम्भवादिति । तदेवं सिद्धेऽपि सुखादिव्यवच्छेदे कर्त्तव्यमेव ज्ञानग्रहणम्, विशेष्यनिर्देशार्थत्वात् । तस्य हि सर्वाण्यमूनि विशेषणान्युपात्तानि तदनुपादाने निरालम्बनानि भवेयुः, श्रोतुश्च बुद्धिर्न समाधीयेतेति । तेन बलाद् गम्यमानमेव कर्त्तव्यमेव ज्ञानग्रहणम् । अर्थाक्षिप्तस्यावचने प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयं 20 स्याद्, अन्यदर्थालभ्यत एव । तस्मार्द्धामनिर्देशार्थं युक्तं ज्ञानपदम् । अव्यपदेश्यपद सार्थक्य विचारः
15
25
न्यायमञ्जय
[ द्वितीयम्
ननु ज्ञानं ज्ञानसाधनेन जनितम् असत्येन प्रत्यक्षबाधितेन रजतादिना । सुखमपि सुखसाधनेन जनितम् असत्येन तु शास्त्रबाधितेन परवनितादिना । किं परवनितादि न सत्यम् । तत्रापि ज्ञानजनकं सत्यम्, असत्यं प्रत्यक्षबाधितत्वात् ? परवनिताद्यपि सुखसाधनम् असत्यं शास्त्रबाधितत्वात् ।
ननु शास्त्रेण किमत्र बाध्यते ? ज्ञानेऽपि प्रत्यक्षेण किं बाध्यते ? विषयो मिथ्येति ख्याप्यते । शास्त्रेणापि सुखस्य हेतुमिथ्येति ख्याप्यते । किं स विषयः सुखहेतुर्न भवति ? यथा त्वेष विषयः कलुषस्य ज्ञानस्य हेतुस्तथा सोऽपि कलु -
कटुविपाकस्य सुखस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि भवत्येवेत्यलमतिकेलिना । तस्मात् समानन्यायत्वात् सुखेऽव्यभिचारितास्तीत्यव्यभिचारिपदाज्ज्ञानं न लभ्यते ।
शब्दानामर्थसंस्पर्शित्वं शाक्यमतनिरासेन साधयिष्यत इति शब्दानुप्रवेशवशेन व्यपदेश्यं नाम ज्ञानमुपपद्यत इति तद्व्यवच्छेदार्थमव्यपदेश्यपदम् ।
प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयमिति । सामान्यलक्षणापेक्षित्वाद् विशेषलक्षणस्य । अक्षं प्रति गतं जन्यत्वेन प्रत्यक्षम् । तत्र यतः प्रमाणात् फलमुत्पद्यते तत् प्रमाणं प्रत्यक्षम् । तच्च फलं ज्ञानमव्यभिचारि व्यवसायात्मकञ्च भविष्यति ; तथाविधफलजनकस्यैव प्रमाणत्वस्य सामान्यलक्षणे प्रतिपादितत्वात् ।