________________
आह्निकम् ]
प्रमाणप्रकरणम्
तत्र वृद्धनैयायिकमतनिरासेन रुचिकारादिमतम्
तत्र वृद्धनैयायिकास्तावदाचक्षते, व्यपदिश्यत इति व्यपदेश्यं शब्दकर्मतापन्नं ज्ञानमुच्यते। यदिन्द्रियार्थसन्निकर्षादुत्पन्नं सद्विषयनामधेयेन व्यपदिश्यते रूपज्ञानं रसज्ञानमिति तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेश्यग्रहणम् ।
तदिदमनुपपन्नम्, न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति, यदि हि तद्रूपज्ञानं रसाज्ञानञ्च विषयाव्यभिचारि निःसंशयञ्च तत्कथमप्रमाणफलमुच्यते ? 5 व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिक्षेपात् किमव्यपदेश्यपदेन ? प्रमाणफलञ्च तद्विज्ञानमिदानी किं प्रमाणप्रभवं भवन् न प्रत्यक्षफलम्, एतत्पदप्रक्षिप्तत्वात् ? नानुमानादिजन्यं तद्वैलक्षण्यात्, नास्ति किञ्चित् पञ्चमं प्रमाणम् । असङ्ग्रहोऽस्य लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः। तस्मादपव्याख्यानमेतदिति व्यवच्छेद्यान्तरमव्यपदेश्यपदस्य वर्णयाञ्चक्रुराचार्याः, शब्दार्थेषु स्थविरव्यवहारतो 10 व्युत्पद्यमानो जनः संशयापगमसमये संज्ञोपदेशकाद 'अयं पनस उच्यते' इति वद्धोदीरिताद्वाक्यात पुरोऽवस्थितशाखादिमन्तमर्थ पनसशब्दवाच्यतया जानाति । तदस्यज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणकं भवितुमुचितम्, असति संज्ञोपदेशिनि शब्दे तदनुत्पादात्, तेन शब्देन्द्रियाभ्यां सम्भूय जनितत्वादुभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते। तदव्यपदेश्यपदेन व्युदस्यते। न चेदं पञ्चमं 15 प्रमाणमवतरति किन्तु शाब्दमेवैतदनुमन्यते लोकः। तथा च 'कथं पुनर्जानीते भवान् पनसोऽयमि'ति पृष्टः प्रतिवक्ति 'मम देवदत्तेनाख्यातं पनसोऽयमिति । पुनरेवं विस्मृत्यापि ब्रवीति 'चक्षुषा मया प्रतिपन्नं पनसोऽयमुच्यते' इति । तदिन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवात्र करणम्। अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय किमपि विशेषण- 20 मुपरचितम्। 'उपदेशः शब्द' इत्येतावदेव लक्षणमभिहितम् । अतश्चेन्द्रियानुप्रवेशेऽपि शाब्दतामस्य मन्यते सूत्रकारः। इह पुनरव्यपदेश्यविशेषणपदोपादानेन शब्दानुप्रवेशप्रतिषेधान्न प्रत्यक्षफलमेतज ज्ञानम् । तस्मादेवंविधव्यपदेश्यविज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति ।
शब्दकर्मतापन्नं ज्ञानमिति । 'रूपज्ञानम्' इत्यादे: शब्दरय कर्मतामभिधेय. 25 तामापन्नम्।