________________
10
१२२ न्यायमञ्ज
[द्वितीयम् रुचिकारादिमते प्रवरादीनामरुचिप्रदर्शनम्
तदेतद् व्याख्यातारो नानुमन्यन्ते । यद्युभयजं ज्ञानमव्यपदेश्यपदेन व्युदस्यते तदपि नाप्रमाणम् अप्रमाणलक्षणातीतत्वादिति । प्रमाणं भवत् कस्मिन्ननुनिविशतामिति चिन्त्यम्।
ननु शाब्दमिदं ज्ञानं तद्भावानुविधानतः । भवत्वक्षजमप्येतत् तद्भावानुविधानतः॥ शाब्दञ्चोभयजञ्चेति विरुद्धमभिधीयते ।
प्रमाणान्तरमेव स्यादित्थं तदपि पूर्ववत् ॥ ननु लोकः शाब्दतामस्य व्यपदिशति 'देवदत्तेनाख्यातं पनसोऽयमिति व्यवहारादित्युक्तम् । अहो लोकवत् सः श्रद्दधानो महानुभावः । न खलु लोकस्य व्यपदेशकशरणा वस्तुस्थितयो भवन्ति । लोको हि यथारूचि व्यपदिशति नानामुनिजनसाधारणमपि तीर्थ नन्दिकुण्डमिति किं न श्रुतवान् भवान् ? हन्त सहि सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे, यदयं सूत्रकारः प्रत्यक्ष
शब्दानुप्रवेशव्यवच्छेदाय विशेषमिदमुपदिशति, शब्दे तु नेन्द्रियव्युदासाय 15 किञ्चिद्विशेषणमुपादत्ते । स पश्यति करणान्तरानुप्रवेशेऽपि शाब्दमेतज् ज्ञानमिति । उच्यते
मनुवत्सूत्रकारोऽपि न धर्मस्योपदेशकः ।
येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥ वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं 20 न प्रत्यक्षफलतामतिवर्त्तते । ततश्च व्युदस्यमानं प्रमाणान्तरमेव स्पृशेत् ।
तस्मादुभयजज्ञानव्युदासानुपपत्तितः।
व्याख्या भङ्गयन्तरेणास्य पदस्येयं विधीयते ॥ संज्ञोल्लेखिप्रत्यक्षस्य शाब्दत्वम्
असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपदानम् । एवं हि परो मन्यते सति 25 लक्ष्ये लक्षणवर्णनमुचितम्, इह तु लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं नाम
नन्दिकुण्डमिति । तीर्थविशेषाख्या।