________________
प्रमाणप्रकरणम्
१२३
आह्निकम् ] न किञ्चिदस्ति, गौरित्याविज्ञानानां शब्दावच्छिन्नवाच्यविषयत्वेन शाब्दत्वात्, इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः, बोधस्वभावस्य सर्वान् प्रत्यविशिष्टत्वात् । तत्र यथा 'दण्डीति ‘शुक्लः' इति वा प्रत्ययो विशेषणावच्छिन्नविशेष्यविषयतया सातिशयत्वमश्नुते तथा गौरित्यादिप्रत्ययोऽपि वाचकावच्छिन्नवाच्यविषयत्वात् सातिशयत्वं भजते। शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द एष प्रत्ययः, 5 तव्यतिरिक्तकरणकार्यत्वानुपपत्तेः। न हीन्द्रियकरणमिदं ज्ञानं भवितुमर्हति, चक्षुषो विशेषणाविषयत्वाद् विशेष्ये च श्रोत्रस्यासामर्थ्यात्। न च युगपदिन्द्रियद्वयद्वारकमेकमुत्पद्यमानं ज्ञानं क्वचिद् दृष्टम्, तत्रैतत् स्यात् । मानसमिदं ज्ञानं सुगन्धिबन्धूकबोधवद् भविष्यति, उक्तमत्र शब्दलिङ्गादिकरणान्तरव्यापारविरतौ कार्यमुपजायमानं केवलमनःकरणमिति कल्प्यते । न । तत्सम्भवेऽपि तथा हि सति मानसमेवैकं प्रमाणं 10 स्यादिति । अस्ति चात्र शब्द एव करणम् । स हि सहस्रकिरणवदात्मानञ्च विषयञ्च प्रकाशत इति, तस्मादिन्द्रियविषयेऽपि गौरित्यादिज्ञानमुत्पद्यमानं शाब्दमेवेत्यवधार्यते।
शाब्दिकसिद्धान्तबलेन प्रत्ययमात्रस्य शाब्दत्वसमर्थनम्
ननु सङ्केतावगमसमये गौरित्यादिशब्दः श्रुत आसीत्, स इदानीमतिक्रान्त । इति कथं तत्कृत एव प्रत्ययः स्यात् ? उच्यते। तदानीमश्रूयमाणस्य शब्दस्य स्मृत्यारूढस्य तत्प्रत्ययहेतुत्वात्,
तच्छ तावपि कि सर्वे वर्णाः प्रत्यक्षगोचराः।
विशेषः कोऽन्त्यवणेन गृहीतेन स्मृतेन वा ॥ तदेवं स्मृतिविषयीकृतशब्दजनित एष प्रत्यय इत्यभ्युपेतव्यः । यथा परोक्षेऽ- 2. पि शब्द उच्चरित आत्मानं प्रकाशयत्यर्थञ्च तथा प्रत्यक्षे विषये स एव स्मर्यमाण आत्मानमर्थञ्च प्रकाशयतीति वाचकावच्छिन्नवाच्यप्रतिभासश्चैवंविधासू
यथा दण्डीति शुक्ल इति । केवलपुरुषपटप्रत्ययापेक्षयात्र सातिशयत्वम् ।
ननु वाचकः स उच्यते यो वाचकत्वेन गृहीतः । सङ्केतकालभावी च वाचकत्वेन गृहीतः । स चेदानीं नास्तीत्याह ननु सङ्केतावगमसमय इति ।
25