________________
१२४
न्यायमञ्जय
[द्वितीयम् बुद्धिषु नूनमेषितव्यः, यथाह वृद्धः 'सज्ञित्वं केवलं परम्' इति । सज्ञित्वमितिमत्वर्थीयप्रत्ययान्तादुत्पन्नो भावप्रत्ययः सम्बन्धमाचष्टे सज्ञाजिसम्बन्धः सज्ञित्वमिति, कृत्तद्धितसमासेषु सम्बन्धाभिधानमित्यभियुक्तस्मरणात्, सज्ञा च
शब्दः, सोऽयं शब्दविशिष्टार्थप्रतिभास उक्तो भवति । न च शब्दानुसन्धानरहितः 5 कश्चित् प्रत्ययो दृश्यते, अनुल्लिखितशब्दकेष्वपि प्रत्ययेष्वन्ततः सामान्य शब्दसमुन्मे
षसम्भवात् तदुल्लेखव्यतिरेकेण प्रकाशात्मिकायाः प्रतीतेरनुत्पादात् । तथाह भर्तृहरिः
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ 10 निर्विकल्पकस्य शब्दानुगमशून्यत्वादव्यपदेश्यत्वम्
तस्मात् प्रत्यक्षस्य लक्ष्यस्यासद्भावात् कस्येदं लक्षणमुपक्रान्तमिति असम्भवदोषमाशङ्कयाह सूत्रकारः अव्यपदेश्यमिति । यदिदमविदितपदपदार्थसम्बन्धस्य
'संज्ञित्वं केवलं परम्' इति । 'यथा रूपादयो भिन्नाः प्राक्छब्दात् स्वात्मनैव तु ।
गम्यन्ते तद्वदेवेदं संज्ञित्वं केवलं परम् ॥' इति परिपूर्ण वात्तिकम् । यद्पादयः सम्बन्धग्रहणात् पूर्वं विविक्ततया शब्दविविक्तेन रूपेणोपलभ्यन्ते तद्वद् गोत्वाद्यपि, सविकल्पकज्ञाने केवलं संज्ञित्वं प्रतिभासत इति वार्तिकार्थः । अनेन तु 'संज्ञित्वमिति वदता 'वाचकविशिष्टवाच्यप्रतिभासः सविकल्पकज्ञानजन्य' इत्यभ्युपगतं बलाद् भवति' इत्यभिप्रायेण ज्ञापकतयोपन्यस्तम्। कृत्तद्धितसमासेषु सम्बन्धाभिधानम् । 'पाचकत्वौपगवत्वराजपुरुषत्वादौ कृत्तद्धितसमासेषु सम्बधाभिधानमन्यत्र रूट्यभिन्नरूपाव्यभिचरितसम्बधेभ्यः' इति परिपूर्णं वार्तिकम्। तेन सत्यपि कृच्छब्दत्वे कुम्भकारत्वमित्यादौ न सम्बन्धाभिधानम्, जातिरेव तत्र 'त्व'प्रत्ययाभिधेया; रूढिशब्दत्वात् संज्ञाशब्दत्वादस्य । शुक्लगुणव्याप्तः शुवल इति मत्वर्थीयप्रत्ययलोपपक्षे शुवलस्य भावः
शुक्लत्वमिति न गुणसम्बन्धाभिधानम्, अपि तु द्रव्यादभेदरूपेणास्य शुक्लशब्दस्य 25 प्रवृत्तेगुणिमात्रवाचित्वमेव । एवं सतो भावः सत्तेत्यत्र पदार्थानां सत्तासम्बन्धेनाव्यभि
चारान्न तत्सम्बन्धोऽभिधेयोऽपि तु सत्तैव ।