________________
प्रमाणप्रकरणम्
आह्निकम् ]
१२५ ज्ञानमुत्पद्यते, विदितसम्बन्धस्यापि वा यत् प्रथमाक्षसन्निपातसमय एव ज्ञानमनुल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते तदशाब्दम्, अशब्दावच्छिन्नविषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षककरणमविकल्पं प्रत्यक्षम् । न च शब्दकृता बुद्धीनां प्रकाशस्वभावता, स्वत एव तासामेवंरूपत्वात्, न च निर्विकल्पकसमये यत् 'किञ्चिदिदमि'त्यादिसामान्यशब्दोल्लेखः कोऽपि कैश्चिदनुभूयते। तस्माद् , गौरित्यादिज्ञानानां शाब्दत्वेऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावान व्यर्थं लक्षणमित्येवमसम्भवदोषनिराकरणार्थमव्यपदेश्यपदमिति, प्रत्यक्षस्याशाब्दत्वे रुचिकारादिसम्मतिः
तदेतद् आचार्या न क्षमन्ते । न गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमपीदं शाब्दमिति वक्तुं युक्तम् । न चात्र शब्दावच्छिन्नार्थः प्रकाशते, तथाविधार्थग्रहणे 10 करणाभावाद् । विशेषार्थप्रमितौ तावच्छब्दः करणम्, विशेषणभूतस्य तु शब्दस्य ग्रहणे किं करणमिति निरूप्यताम्। न श्रोत्रं, विरम्य व्यापारसंवेदनात्, सम्बन्धग्रहणादूर्ध्वञ्च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रंकरणमाशङ्कितुमपि न युक्तम्, नापि मनो बाह्यकरणनिरपेक्षं बाह्ये विषये धियमाधातुमलम् अन्धाद्यभावप्रसङ्गात् ।
15 प्रत्यक्षे शब्दस्य न करणत्वम्
ननु शब्द एव करणमित्युक्तं तत् किमपरकरणाशङ्कनेन ? मैवम् एकस्य कारकस्यैकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः । सवितृप्रकाशवदिति चेन् न। क्रियाभेदाद यत्रासौ करणं न तत्र कर्म, यत्र वा कर्म न तत्र करणमिति । घटादिविषयप्रमितिजन्मनि करणमेव तरणिप्रकाशो न कर्म । तद्ग्रहणकाले तु कर्मैवासौ 20 न करणम् । किं तर्हि तत्र करणमिति चेत् ? केवलमेव चक्षुरिति ब्रूमः, आलोकग्रहणे .. चक्षुषः प्रकाशान्तरनिरपेक्षत्वात् । कथमेवमिति चेद् । अपर्यनुयोज्या हि वस्तुशक्तिः । घटादिग्रहणे चक्षुरुयोतमपेक्षते न उद्द्योतग्रहण इति कमनुयुञ्जमहे । सोऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथमगृहीतः चिरमवतिष्ठमानस्तदिन्द्रियग्राह्य एक विषये गृह्यमाणे करणतामुपयातीति युक्तम् । शब्दस्तु क्षणिक: 25 श्रोत्रेन्द्रियग्राास्तदितरपरिच्छेदे विषये तदवगमक्रियायां करणीभूय भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत् । शब्दो हि धूमादिवदुपाय एव नोपेयः । स ..