________________
१२६
न्यायमञ्जयां
[ द्वितीयम्
उपायत्वात् प्रथमं गृह्यतां नाम न उपेयग्रहणकाले पुनर्ग्रहणमर्हति धूमवदेवेति । एवं स्मर्यमाणोऽपि शब्दो यत्रार्थप्रतीतिकारणम्, तत्रापि प्रथमं शब्दस्मरणं ततः शब्दार्थसम्प्रत्ययो भवति, नतरां तत्रार्थप्रतीतिवेलायां शब्दग्रहणं सम्भाव्यते । तस्मान्नास्ति
वाचकविशेषितवाच्यप्रतिभासः। अपि च गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षा5 न्वयब्यतिरेकानुविधायि प्रसभं तत्कथं शाब्दमित्युच्यते ?
शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् ।
तदेव यदि ते शाब्दमहो नैयायिको भवान् ॥ ननु शब्दावच्छिन्नमर्थं न चक्षुःश्रोत्रयोरन्यतरदपि करणं ग्रहीतुमलमित्युक्तम्, भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे ?
ननु नाविषये युक्तमिन्द्रियस्य प्रवर्तनम् । तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं ब्रुवे ॥ मरीचिषु जलज्ञानं कथमिन्द्रियजं तव। तत्रापि हि न तोयेन सन्निकर्षोऽस्ति चक्षुषः॥ ननु च स्मृत्युपारूढमुदकं तत्र गृह्यते। इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ॥ ननु शब्दो न नेत्रस्य कदाचिदपि गोचरः । असन्निहितमप्यम्बु किं वा भवति गोचरः॥ नन्वेकेन्द्रियवादः स्याच्चक्षुषा शब्दवेदने।
अत्रापि सर्वबोधः स्यादसन्निहितवेदने ॥ ननु च मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्तीक्रियते ? कथमस्य भ्रान्तत्वम् ? किमनिन्द्रियजत्वादुत व्यभिचारित्वात् । तत्रानिन्द्रियजत्वेनास्य भ्रान्ततायामिन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव निरासादव्यभिचारिपदमनुपादेयमिति । तदु
भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूष इति । अनेन वरं चाक्षुषत्वमस्याभ्युपगम्यतां न त्वत्यन्तासम्बध्यमानं शाब्दत्वमिति । प्रौढवादितया स्वयं शब्द25 विशष्टार्थप्रतिभासम्-अभ्युपगमेनापि प्रतिपादयति ।