________________
आह्निकम् ]
प्रमाणप्रकरणम्
१२७
पादानात्तु व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियजमसन्निहितसलिलज्ञानमभ्युपगन्तव्यम् ।
यथा चाविषये तस्मिन्नीरे नयनजा मतिः। . तथा वाचकसंस्पृष्ट वाच्ये किमिति नेष्यते ॥ यथा च तव कालादि नीरूपमपि चाक्षुषम्।
तथा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः॥ एवं हीन्द्रियव्यतिरेकानुविधानमत्र न बाधितं भविष्यति ।
ननु चाक्षुषतां शब्दे न जीवन वक्तुमुत्सहे। त्यजैनं वाचकोपेतवाच्यावगमदुर्ग्रहम् ॥ अपि चामुष्य शाब्दत्वे सम्बन्धग्रहणं कथम् । न चागृहीतसम्बन्धः शब्दो भवति वाचकः ॥
निर्विकल्पकविज्ञानविषये न च तद्ग्रहः। सविकल्पकस्यापि शाब्दत्वखण्डनम्
शाब्दपक्षे तु निक्षिप्तं भवता सविकल्पकम् ॥ सम्बन्धः शक्यते बोद्ध न च मानान्तराद् विना। शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयम् ॥ न च शब्दोपरक्तेऽर्थे सम्बन्धं बुध्यते जनः।
गोशब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत् ॥ - वाच्यस्य हि गवादे!शब्दविशेषितस्य वाच्यत्वाद् वाच्योऽर्थ इव गोशब्दोऽपि वाच्यतामवलम्बते।
यदि च स्वानुरागेण वाचकाद वाच्यवेदनम् । लिङ्गादपि भवेद् बुद्धिः स्वावच्छेदेन लिङ्गिनि ॥
निर्विकल्पकविज्ञानविषये न च तद्ग्रहः। निर्विकल्पके शब्दविशिष्टस्यार्थस्य तद्वाच्यस्य अप्रतिभासात्, चक्षुषः शब्दाविषयत्वात् । शाब्दज्ञानेन तद्बोध इति । शब्दात् तदनुरक्तार्थप्रत्यये तेनार्थेन शब्दस्य सम्बन्धग्रहणम्, गृहीतसम्बन्धश्च शब्दोऽर्थं 25 प्रत्याययतीतीतरेतराश्रयता।