________________
१२८
न्यायमञ्जय
[द्वितीयम् अथ धूमान्वितत्वेन न वह्निरवगम्यते । इहापि शब्दयोगेन गवादिनँव गम्यते ॥ न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन । यदि स्यान्निविकल्पेऽपि प्रतिभासेत रूपवत् ।। अर्थासंस्पशिनः शब्दान कथयन दुष्टसौगतः। प्रत्यक्षास्त्रेण हन्तव्यः स कथं हन्यते त्वया ॥ प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः।
तेषां यद्विषये वृत्तिस्तद्धि शाब्दीकृतं त्वया ॥ अपि च विषयभेदेन प्रतिभासभेदो भवतीति दुराशया शब्दविशिष्टमर्थं निर्विकल्पात् सविकल्पस्य विषयमधिकं पश्यति। भवान् अनेन वर्मना अवतरन् परं शब्दाध्यासं न पश्यतीति कोऽयं व्यामोहः ? स त्वं वचनीयोऽसि संवृत्तः 'मधु पश्यसि दुर्बुद्ध प्रपातं नैव पश्यसि' इति ।
तस्माद्गौरिति विज्ञानं प्रत्यक्षमवधार्यताम् । शब्दस्मरणसापेक्षचक्षुरिन्द्रियनिर्मितम् ॥ मानसत्वं तु यत्तस्य नेष्यते युक्तमेव तत् । तद्भावानुविधायित्वाद् बाह्येन्द्रियजमेव तत् ॥
15
प्रत्यक्षास्त्रेण हन्तव्य इति । अयं भावः । 'यदि अर्थासंस्पर्शिनः शब्दास्तत्प्रत्यक्षमप्यर्थासंस्पशि प्राप्तम्, तत्समानविषयत्वाच्छब्दानाम्' इत्युक्ते प्रत्यक्षस्यार्थासंस्पशित्वानभ्युपगमान्निवर्तेत बौद्धः । तत्र निर्विकल्पकं तावत् समानविषयं न भवति वाच्यताविशिष्टार्थप्रतिभासस्य भवन्मते शब्दजत्वात्, तादृशस्य चार्थस्य निर्विकल्पकाविषयत्वात्; सविकल्पकञ्च न प्रत्यक्षं तवेति ।
अनेन वर्त्मना अवतरन्तं शब्दाध्यासमिति । विलसति गौरयमित्यादिके शब्दोल्लेखेनोत्पद्यमाने ज्ञाने सामान्यादयोऽवभासन्ते, असति तु शब्दोल्लेखेन ज्ञाने नावभासन्ते । अतः शब्दवशादवभासमानास्ते कथं न शब्दाकाराः स्युः। अतः शब्दाकारा . एवामी सामान्यादयोऽर्था अध्यस्ताः प्रतिभासन्ते न पुनर्बहिः सन्ति । यथा रक्तः
स्फटिकमणिरिति प्रतीतिः सति लाक्षासन्निधाने समुत्पद्यतेऽन्यथा नेति तद्वशाल्लाक्षा