________________
आह्निकम् ] प्रमाणप्रकरणम्
१२९ विषयभेदेन प्रतिभासभेदे भाष्यविवरणकर्तप्रवरसम्मतिः
___ अत्र पुनः प्रवराः प्राहुः, नन्वेवं गौरित्यादिबोधेषु वाचकावच्छिन्नवाच्यप्रतिभासे सर्वप्रकारमपाक्रियमाणे प्रथमाक्षसंनिपातसमयमासादितसद्भावनिविकल्पकवेदनलक्षण्यं कथमेषां भवेत् ? न हि विषयातिशयमन्तरेण प्रतिभासातिशयो भवितुमर्हति, 'दण्डी ति दण्डविशिष्टः पुरुषः प्रतिभासते, इतरथा न केवल- 5 पुरुषप्रतीतेरेषा प्रतीतिविशिष्यते, उभयप्रतिभासेऽपि न दण्डपुरुषाविति प्रतीतेः, विशेषणविशेष्यभावस्य नियामकत्वात् ।
पूर्वापरचिरक्षिप्रक्रमाद्यवगमेष्वपि । दिक्कालादिविशिष्टोऽर्थः स्फुरत्यतिशयग्रहात् ॥ प्रत्यक्षः किं स कालादिः प्रतीति पृच्छ कि मया। गृह्यते तद्विशिष्टोऽर्थः स च नेत्येतदद्भुतम् ॥ एतेन समवायेऽपि प्रत्यक्षत्वं प्रकाशितम् ।
इहेति तन्तुसम्बद्धपटप्रत्ययदर्शनात् ॥ 'अयं पटः' इति प्रत्ययाद् ‘इह तन्तुषु पटः' इति विलक्षण एष प्रत्ययस्तन्तुपटसम्बन्धस्य विशेषणस्याप्रत्यक्षतायां न केवलपटप्रत्ययाद् विशिष्यतेति । अथ मतम् 15 उपायभेदात् प्रतीतिभेदो भवति दूराविदूरदेशव्यवस्थितस्थाण्वादिपदार्थप्रतीतिवत् संस्कृतासंस्कृताक्षकरणविषयबोधवद्वेति । तदसाम्प्रतम्, उपायभेदेऽपि तद्भदासिद्धेः। उपायो बुद्धावतिशयमादधाति न विषये, विषयावगतिसमये च न बुद्धिरवभातीति नैयायिकाः। तदयमतिशयो यदधिकरणः सा न प्रतिभासते बुद्धिः, यच्च तदानीमव
रूपाध्यारोपः स्फटिके कल्यते । एवं शब्दवशात् समुत्पद्यमानानां सामान्यादिप्रत्ययानां 20 शब्दाकारसामान्यादिरूपाध्यारोपोऽर्थे कल्प्यतामिति पर्यनुयुक्तैर्भवद्भिरिदमेवोत्तरं वक्तुम् शक्यम्, सविकल्पके ज्ञाने शब्दरहितस्यार्थस्यावभासनम्, शब्दस्तु तत्र चक्षुरादिवदुपाय एव, न तु सोऽपि तत्र प्रतिभासतेऽतः प्रतिभासमानानां सामान्यादीनां कथमप्रतिभासमानशब्दाकारताकल्पना सम्भवतीति । तदिदानीमित्थं शब्दविशिष्टार्थप्रतिभासेऽङ्गीकियमाणे विघटते। कथम् ? अर्थवच्छब्दस्यापि यदि प्रतिभासोऽभ्युपगम्यते तदानीं 25 शब्दस्याप्रतिभार मानत्वे यत् शब्दाकारत्वनिराकरणं सामान्यादीनां कृतं तन्नैव कर्तुं
१७