________________
न्यायमञ्जयां
[द्वितीयम् भासते विषयस्तत्रातिशयो नास्ति, दृश्यते चातिशयसंवेदनमिति सङ्कटः पन्थाः । न च दूराविदूरदेशवत्तिनि पदार्थे प्रतीतिरुपायभेदाद भिद्यते, सापि हि विषयभेदादेव भिद्यते।
दूराद्धि वस्तुसामान्यं धर्ममात्रोपलक्षितम् ।
अदूरतस्तु विस्पष्टविशेषमवसीयते ॥ यथा माघेन वणितम्
चयस्त्विषामित्यवधारितं पुराततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः॥ ___रुचिकारादिमते उपायभेदात् प्रतिभासभेदसमर्थनम्
क्रियान्तराणां वैचित्र्ये यद्वा तद्वाऽस्तु कारणम् ।
भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥ तदेतदाचार्याः प्रतिसमादधते न विषयभेदादेव प्रतिभासभेदः। किन्तूपायभेदाद्भवत्येव । यच्च चोदितं विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासादतिशयवचने सङ्कटः पन्था इति तदविदितनैयायिकदर्शनस्यैव चोद्यम् । ज्ञानोत्पाद एव विषयस्य प्रत्यक्षतेति नो दर्शनम्, न ज्ञानग्रहणमिति । तत्र यथा पुरुष इति निरतिशयज्ञानमात्रोत्पादे तावन्मात्रविषयप्रत्यक्षता भवति न तत्र ज्ञानं प्रकाशते, अगृह्यमाणेऽपि ज्ञाने विषय एव प्रतिभासते, एवं 'दण्डी'ति 'शुवलवासा' इति विशेषण
शक्यत इति । पुनरनेन मार्गेणावतरन् केन वार्यते शब्दाध्यास इति । एवञ्चेदं शब्दाध्यासपक्षावतरणं विश्वरूपटीकातो व्यपदेश्यपदं व्याचक्षाणैः भदृश्रीशशाङ्कधरपादैव्याख्यातम् । ग्रन्थकारस्त्वपवर्गाह्निके स्वाभिप्रायेण शब्दाध्यासस्वरूपं प्रपञ्चयिष्यति । शब्दाकारस्य सामान्यादेरर्थे न्यासः समारोपः शब्दाध्यासः ।
चयस्त्विषामिति । विभुर्हरिरम्बरात् खादवतरन्तं मुनि क्रमान्नारद इत्यनेन विशेषेणाबोधि बुद्धवान् । यः पूर्वं दूरतया स्पष्टग्रहणाभावे सति त्विषां चयस्तेजसां पिण्ड - इत्यवधारितः, पुनः किञ्चिन्निकटतया शरीरितया ज्ञाताकारम्, ततोऽपि नैकट्यादवयव