________________
आह्निकम् ]
प्रमाणप्रकरणम्
5
ज्ञानाभ्युपायातिशयवशात् सातिशयप्रत्ययजनने तद्ग्रहणे स एव विषयोऽवभासत इति कियानेष सङ्कटः पन्थाः तथा च 'दण्डीति' पुरुषप्रवणव मतिः, को दण्डी ? पुरुषः, कः पुरुषः ? दण्डीति, सामानाधिकरण्येन निःसन्धिबन्धनस्य पुंस एव प्रतिभासात् । एवं दण्डिनं भोजय, दण्डिने देहीति भोजनादिकार्ययोगित्वं न दण्डे, अपि तु पुंस्येव ।
__ननु ‘दण्डी पर्वतारोहती ति दण्डेऽपि कार्यान्वयो दृश्यते लोके, वेदेऽपि 'दण्डी मैत्रावरुणः प्रैवानन्वाहेति' प्रैषानुवचनस्य वचनान्तरतः प्राप्तेर्दण्डविधानार्थमेतद्वाक्यं भवति । यथा 'लोहितोष्णीषा ऋत्विजः प्रचरन्ती'ति श्येनादौ ऋत्विजां प्रकृतिवद्धावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतद्भवति ? उच्यते । भवत्वेवं, किन्तु दण्डमवलम्ब्य पुरुषः पर्वतमारोहति, न दण्डो निश्चेतनः । वेदेऽपि दण्डपाणिः ।। पुरुषः प्रैवाननुभाषते न दण्डः । न लोहिता उष्णीषाः प्रचरन्ति किन्तु अन्यपदार्थीभूता ऋत्विज एवेति सर्वत्र विशेष्यप्रवणेव मतिः । उभयप्रतिभाने तु दण्डपुरुषाविति स्यान दण्डीति, विशेषणविशेष्यभावस्य नियामकत्वादिति चेत् ? सेयं विशेष्यप्रवणा मतिरुक्तंव भवति, विशेषणस्य विशेषणत्वेनैवोपसर्जनत्वाद् दण्डोऽस्यास्तीति पुरुष एवोच्यते न दण्डपुरुषौ । एवं पूर्वापरादिप्रत्ययाश्चिरक्षिप्रादिप्रत्यया इह तन्तुषु .5 पट इत्यादिप्रत्ययाश्च दिक्कालसमवायग्राहिणः, त इमे दिक्कालसमवायाः सामग्रयन्तर्गताः सन्तः प्रत्ययातिशयमादधति, न तद्विषये भवन्ति पटादिद्रव्यवत् ।
20
विभागावबोधात् पुंस्त्वेन नितिम्, ततोऽप्यतिनैकट्यान्नारद इत्येवमबोधि। स एव विषयोऽवभासते अविशिष्ट एव भासत इत्यर्थः । निःसन्धिबन्धनस्य शुद्धपुरुषप्रत्ययप्रतिभास्वादविभक्तरवरूपस्य ।
प्रैषानुवचनस्य वचनान्तरतः प्राप्तेरिति । 'मैत्रावरुणः प्रेष्यति चानु चाऽऽह' इति वचनान्तरेण यत् प्राप्तं प्रैषानुवचनं तदद्य दण्डित्वं विधीयते, यत् प्रैषानुवचनं मैत्रावरुणेनस्विजा कर्तव्यं तद् दण्डिना यजमानतः प्राप्तदण्डहस्तेन कर्तव्यम् । पशुयागेऽध्वर्युणा अग्नये छागस्य वपाया मेदसः प्रेष्येति, एवं प्रेषितो मैत्रावरुणो यत् 'होतर्यज' इति प्रतिप्रेषणं करोति तत् प्रैषानुवचनम्, तदेव 'प्रेष्यति चानु चाऽऽह' इत्यत्र 25 प्रेष्यतीत्यनेन विहितम्, न केवलमेवभूत प्रैषानुवचनमसौ करोतीति यावदनु चाह अवाह च अनुवाक्यम यसावेव पठतीत्यर्थः। प्रकृतिवद्भावेन प्राप्तानामिति ।