________________
न्यायमञ्जयां
[द्वितीयम् एवं पतनाद्यनुमेयगुरुत्वादिकारणभेदजनिता 'गुरुः पाषाण' इत्यादिप्रत्ययाः परोक्षविशेषणं विशेष्यमवलम्बन्त इत्यलं विस्तरेण।
तस्माद् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाक्यविषयम् । अतश्च न शाब्दं तत्, अपि तु सुस्पष्टं प्रत्यक्षमेव । तस्मिश्च लक्षिते सति लक्षणवैयर्थ्यशङ्काकर5 णाभावान्नासम्भवदोषनिराकारणार्थमव्यपदेश्यपदम् । रुचिकारादिमतेऽव्यपदेश्यपदावश्यकता
किमर्थं त_दमस्तु ? उक्तमाचार्यैः उभयजज्ञानव्यवच्छेदार्थमिति । ननु तदपि प्रत्यक्षमेवेति अनपोह्यमुक्तम् । पुरोऽवस्थितगवादिपदार्थस्वरूपमात्रग्रहण
निष्ठितसामर्थ्यमत्र प्रत्यक्षम्, गोशब्दवाच्यतायान्तु संज्ञाकर्मोपदेशी शब्द एव 10 प्रमाणम् । यद्यपि शब्दार्थसम्बन्धपरिच्छेदे गत्यन्तरमपि सम्भवति तथापि यत्र
तावत् संजिनं निविश्य सज्ञा वृद्धरुपदिश्यते 'गोशब्दवाच्योऽयं' 'पनसशब्दवाच्योऽयमिति तत्र तद्वाच्यतापरिच्छेदे स एव कारणम् ।
अत एव च लोकोऽपि शाब्दत्वमभिमन्यते। शब्दोपरचितापूर्वज्ञानातिशयतोषितः ॥ तच्छब्दवाच्यताज्ञप्तिविना संज्ञोपदेशिनः । शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥ अतः सूत्रकृताप्यत्र शब्दातिशयदर्शनाद् ।
व्यधायि तद्व्यवच्छेदो न तु धर्मोपदेशिना ॥
तस्मादुभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति । 20 तत्र केषाश्चित् पूर्वपक्षः
अन्ये मन्यन्ते यदि सङ्कत ग्रहणकाले भाविनः संज्ञोपदेशकवचनजनितस्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदम्, तदा तद्व्यवहारकालेऽपिः सोमप्रकृतित्वाद् एवंभूतानामव्यक्तयागानां श्येनादीनां प्रकृति वद्भावात् षोडश ऋत्विज प्राप्ता एव; तान् प्राप्ताननूद्य लोहितोष्णीषता तेषां विधीयत इति । - संज्ञाकर्मोपदेशीति । संज्ञासंज्ञिसम्बन्धक्रिया संज्ञाकर्म । गत्यन्तरमपि सम्भवतीति । यत्र वृद्धोक्तं वाक्यमुपलभ्य परः प्रवर्ततेऽन्यश्च तटस्थ एव शब्दार्थे व्युत्पद्यते 'अमुष्माच्छब्दादवगतादत्रायं प्रवृत्तः, तन्नूनमस्यायमर्थ' इत्यादिप्रकारेण ।