________________
आह्निकम् ]
प्रमाणप्रकरणम्
१३३
यदयं गौरिति सङ्केतग्रहणकालानुभूतदेवदत्ताचुदीरितसंज्ञोपदेशकवचनस्मरणपूर्वकं विज्ञानमुत्पद्यते तदप्युभयजमेवेति कथमनेन न व्युदस्यते ?
ननु तत्र शब्दस्मरणं कारणं न शब्दः, सङ्कतकालेऽपि शब्दस्मरणमेव कारणम्। न हि क्रमभाविनो वर्णा युगपदनुभवितु पार्यन्ते, अन्त्यवर्णे तु गृह्यमाणे स्मर्यमाणे वा किं शब्दव्यापारो विशिष्यते ?
ननु व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाणमिन्द्रियेण सह सविकल्पप्रत्ययोदये व्याप्रियते। सङ्केतकाले तु संज्ञोपदेशिवृद्धवाक्यमिति चेत्, मैवम् । व्यवहारकालेऽपि संज्ञोपदेशकं वृद्धवाक्यमेव स्मर्यते तदस्मरणे तच्छब्दवाच्यतानवगमात् । 'अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीदि' त्येवमनुस्मृत्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं ज्ञानम्। 10
तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम् । हेतुतामुपयातीति शाब्दमेतदपोष्यताम् ॥ एवमस्त्विति चेच्छान्तमेवं सति तपस्विनाम् । नैयायिकानामुत्पन्न प्रत्यक्षं सविकल्पकम् ।। यत्र मार्गान्तरेणापि सङ्केतज्ञानसम्भवः ।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ॥ नैयायिकानाञ्च सविकल्पप्रत्यक्षमयाः प्राणाः, तस्मान्नोभयजस्य शाब्दत्वं ज्ञानस्य वक्तव्यम् । सम्बन्धाधिगमस्तु नानाप्रमाणकः। तत्र स्वे स्वे विषये तत्तत प्रमाणं प्रवर्तते, यथाह भट्टः "सम्बन्धस्त्रिप्रमाणक" इति । तस्मान्नैकस्य शब्दस्य भार आरोपणीयः । प्रत्यक्षन्तु सङ्केतग्रहणकालेऽपि स्वविषयग्राहकम् । इदानीमपि 20 व्यवहारकालेऽपि तत्स्वविषयग्राहकमिति नोभयजज्ञानं व्यवच्छेदपक्षो निरवद्यः ।
एवमस्त्विति चेच्छान्तमिति । शान्तम्, मा भूदेवम्, अमङ्गलमेतदित्यर्थः । तत्राप्यनेन न्यायेन शाब्दता न निवर्तत इति । तत्रापि यस्मादन्यं वृद्धं प्रत्युदीरिताद् वृद्धवाक्याद् यत्रार्थे तस्य व्युत्पत्तिख़ता, तदर्थग्रहणकाले तस्य वाक्यस्य स्मरणात् । सम्बन्धस्त्रिप्रमाणक इति ।
शब्दवृद्धाभिधेयास्तु प्रत्यक्षेणैव पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ।