________________
१३४
5
15
न्यायमञ्जय
[ द्वितीयम्
तस्माद् वरं जरन्नैयायिककथितशब्दकर्मतापन्नज्ञानव्यवच्छेद एवाश्रीयताम्, तत्र तावत्कर्मणि कृत्ये कृते व्यपदेश्यशब्दो यथार्थतरो भवति ।
अपर आह, सविकल्पकस्य शब्दसङ्कल्पकस्य शब्दसंसर्गसापेक्षजन्मनः 10 प्रत्यक्षज्ञानस्य शाब्दतां पूर्ववदाशङ्कय तस्यैवाशाब्दतां दर्शयति अव्यपदेश्यपदेन सूत्रकारः, प्रत्यक्षमेव तज्ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वादव्यपदेश्यमशाब्दमित्यर्थः ।
20
ननु तत्र चोदितं न तादृशं ज्ञानमप्रमाणम्, न पञ्चमं प्रमाणमिति । सत्यम् । अयन्तु तेषामाशयः, रूपादिविषयग्रहणाभिमुखं हि तदक्षजं ज्ञानं प्रमाणं वा फलं वोच्यते । यदा तु तदेव शब्देनोच्यते रूपज्ञानं रसज्ञानमिति तदा रूपादिज्ञानविषयग्रहण व्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मतापत्तिकृतां प्रमेयतामेवावलम्बत इति न तस्यां दशायां तत्प्रमाणमिति कुतः पश्वमप्रमाणप्रसङ्ग इति । केषाञ्चिदपरेषां मतेऽव्यपदेश्यपद सार्थक्यम्
स्पष्टत्वाद् वाचकाभावादिन्द्रियानुविधानतः । लोकस्य सम्मतत्वाच्च प्रत्यक्षमिदमिष्यते ॥ शब्दानुस्मृतिजत्वेऽपि न शाब्दं ज्ञानमीदृशम् । शब्दस्मृतिः सहाय: स्यादिन्द्रियस्य प्रदीपवत् ॥ नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते । नेदानीं संगृहीतं स्यात्प्रत्यक्षं निर्विकल्पकम् ॥ यत्तु शब्दानुवेधेन शाब्दत्वं सविकल्पके । कश्चिदाशङ्कते तस्य प्रतिशब्दोऽयमुच्यते ॥
अन्यथानुपपत्त्या च वेत्ति शक्ति द्वयाश्रिताम् । अर्थापत्त्यावबुध्यन्ते सम्बन्धं त्रिप्रमाणकम् ॥ इति ॥
चेष्टा प्रवृत्तिनिवृत्तिलक्षणया । अनुमानेनानुमानभूतया । प्रमाणत्रयावगम्यत्वेऽपि सम्बन्धस्यार्थापत्तेः साक्षाद् व्यापारादितरयोस्तदुपकारत्वेन 'अर्थापत्त्यावबुध्यन्ते' 25 इत्युक्तम् ।