________________
आह्निकम् ]
प्रमाणप्रकरणम् यत्र शब्दानुवेधेऽपि प्रत्यक्षं ज्ञानमिष्यते। तत्र तत्स्पर्शशून्यस्य तथात्वे का विचारणा ॥ निर्विकल्पकवत्तस्मात् प्रत्यक्ष सविकल्पकम् । समग्रहीच्च तदिदं पदेनानेन सूत्रकृत् ॥ इत्याचार्यमतानीह दर्शितानि यथागमम् ।
यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम् ॥ अव्यभिचारिपदसार्थक्यम्
अव्यभिचारिग्रहणं व्यभिचारिज्ञानव्यवच्छेदार्थम् । यथा ग्रीष्मे तपति ललाटन्तपे तपने तन्मरीचिषु चतुरमूषरभुवमभिहत्य समुत्फलितेषु तरङ्गाकारधारिषु यद् वारिधिज्ञानं तदतस्मिंस्तदिति ग्रहणाद व्यभिचारि भवति तदनेन 10 पदेन व्यवच्छिद्यते न तत्प्रत्यक्षमिति । तत्र च निर्विकल्पकमपि प्रथमनयनसन्निपातजज्ञानमुदकसविकल्पकज्ञानजनकमुदकग्राह्येव न यथा, तथा तथागताः कथ यन्ति मरीचिविषयमविकल्पकं ज्ञानमुदकसविकल्पकजननादप्रमाणमिति निवि. कल्पावस्थायामविचारयत एवं प्रथमोन्मीलितचक्षुषो झगिति सलिलप्रतिभासात-। अथवा वाचकोल्लेखपूर्विका अपि संविदः नैवेन्द्रियार्थजन्यत्वं जहतीत्युपपादितम्, 15 तस्मात् सविकल्पकमविकल्पकं वा यदतस्मिंस्तदिति ज्ञानमुत्पद्यते तद्व्यभिचारि, तच्चेह व्यावर्त्यमिति।
ननु मरीचिषु जलज्ञानमविद्यमानसलिलावभासित्वादनिन्द्रियार्थसन्निकर्षजमतश्चेन्द्रियार्थसन्निकर्षोत्पन्नपदेन तव्युदाससिद्धः, किमव्यभिचारिपदेन ? नंतदेवम्,
तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः। न ह्यनुन्मीलिताक्षस्य मरौ सलिलवेदनम् ॥ अर्थोऽपि जनकस्तस्य विद्यते नासतः प्रथा। तदालम्बनचिन्तां तु त्रिधाचार्याः प्रचक्रिरे ॥ कैश्चिदालम्बनं तस्मिन्नुक्तं सूर्य्यमरीचयः।
25 निगृहितनिजाकाराः सलिलाकारधारिणः ॥ तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवदुभयविशेषाः, न च सन्निहितमरीचिविशेषाः स्मरणपथमवतरन्ति किन्तु पूर्वोपलब्धविरुद्धसलिलवतिनो