SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ३६ 5 3 10 す न्यायमञ्जय [ द्वितीयम् विशेषाः, तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूपमुपदर्शयितु मशक्नुवन्तस्तोय रूपेणावभासन्त । आलम्बनपदार्थविचारः 20 अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मणः । सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ॥ यत्र किल ज्ञाने यद्रूपमुपप्लवते तत्तस्यालम्बनमुच्यते, न सन्निहितम् । न कान्तासतः खपुष्पादेः ख्यातिरवकल्पत इति देशान्तरादौ विद्यमानमेव सलिलं सदृशदर्शन प्रबुद्धसंस्कारोपजनितस्मरणोपारूढम् इहावलम्बनी भवति । अन्यदालम्बनश्वान्यत् प्रतिभातीति केचन । आलम्बनं दीधितयस्तोयश्व प्रतिभासते ॥ कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यत इति न परमाण्वादौ प्रसक्ति रिति । तदिदं पक्षत्रयमप्युपरिष्टान्निपुणतरं निरूपयिष्यते । तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकानुविधायिनां विभ्रमाणामिन्द्रियार्थसन्निकर्षोत्पन्नपदेन निरसितुमशक्यत्वाद् युक्तमव्यभिचारिपदोपादानम् । 15 विभ्रमवारणार्थमव्यभिचारिपदमिति शङ्कायाः समाधानम् मानसा विभ्रमा बाह्येन्द्रियानपेक्षजन्मानः, तेषां सत्यमिष्यत एवेन्द्रियार्थसन्निकर्षपदेन पर्युदसनमिति न तदर्थमव्यभिचारिपदोपादानम् । तद्यथा विरहोद्दीपितो द्दाम कामाकुलित दृष्टयः । दूरस्थामपि पश्यन्ति कान्तामन्तिकवत्तनीम् ॥ नन्वेवम्प्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्य आकार: प्रतिभाति ? उच्यते आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे । स्मृतेस्तु कारणं किञ्चित् कदाचिद्भवति क्वचित् ॥ कर्तृकरणव्यतिरिक्तं ज्ञानजनकमिति । ज्ञानजन्मनि कारकत्रयव्यापारो - पलम्भाच्छुक्तिकायाः कर्तृकरणरूपतानन्वयादवश्यं कर्मतया विषयत्वेनालम्बनत्वेनान्वयो 25 वाच्य इति ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy